०३१

सर्वाष् टीकाः ...{Loading}...

०१ अतीमाम् अख्यं पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

अतीमाम् अख्यं पृथिवीम्
अति द्याम् अति सूर्यम् ।
अति विश्वम् इदं भूतम्
अत्य् अख्यं यातुधान्यः ॥

०२ दर्शय मा यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

दर्शय मा यातुधानान्
दर्शय यातुधान्यः ।
अघायून् सर्वान् दर्शय-
-इति त्वौषध आ रभे ॥

०३ एवा सहस्रचक्षो त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ।
सहो ऽसि यातुधानजम्भनम् ॥

०४ इमाः पारे पृदाक्वस्

विश्वास-प्रस्तुतिः ...{Loading}...

इमाः पारे पृदाक्वस्
त्रिषप्ता निर्जरायवः ।
तासां जरायुणा वयम्
अक्ष्याव् अपि व्ययामस्य्
अघायोः परिपन्थिनः ॥

०५ विषूच्य् एतु कृन्तती

विश्वास-प्रस्तुतिः ...{Loading}...

विषूच्य् एतु कृन्तती
पिनाकम् इव बिभ्रती ।
विष्वक् पुनर्भुवा मनो
ऽसमृद्धा अघायवः ॥

०६ अपेतः परिपन्थिनो +ऽपो

विश्वास-प्रस्तुतिः ...{Loading}...

अपेतः परिपन्थिनो
+ऽपो अघायुर् अर्षतु ।
न बहवः सं शक्नवन्
नार्भका अभि धृष्णवन् ॥

०७ प्रेतं पादौ प्र

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेतं पादौ प्र स्फुरतं
वहतं पृणतो गृहम् ।
इन्द्राण्य् एतु प्रथमा-
-अजीतामुषिता पथा ॥

०८ आयम् अगन् फाल्गुमणिर्

विश्वास-प्रस्तुतिः ...{Loading}...

आयम् अगन् फाल्गुमणिर्
बलेन बलदाः सह ।
येनेन्द्रो दस्यूनां वीराꣳ
असुराणाम् अवातिरत् ॥

०९ वर्चसा मां पयसोक्षन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चसा मां पयसोक्षन्तु देवा
वर्चसा द्यावापृथिवी उभे ।
वर्चो मे देवः सविता दधातु
वर्चो विप्रः कश्यपो मे दधातु ॥

१० वर्चो म आपो

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चो म आपो दधतु
वर्चो मे वीरुधो दधन् ।
भूतानि सर्वाः सङ्गत्य
वर्च आ धुर् मुखे मम ॥

११ याः पुरस्ताद् वितिष्ठन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

याः पुरस्ताद् वितिष्ठन्ते
गावः प्रव्राजिनीर् इव ।
वातीकृतस्य भेषजीः
पिप्पलीः पारयिष्णवः ॥

१२ रुद्रस्य मूत्रम् अस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्रस्य मूत्रम् अस्य्
अमृतस्य नाभिः ।
पृथिव्यां मूलं निष्ठितम् असि
विषाणा नाम वातीकृतभेषजी ॥

१३ शं ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

शं ते अस्तु मतस्नाभ्यां
शं यक्ने शं तलीद्यै ।
शं ते पृष्टिभ्यो मज्जभ्यः
शम् अस्तु तन्वे तव ॥

१४ न हि ते

विश्वास-प्रस्तुतिः ...{Loading}...

न हि ते अग्ने तन्वः
क्रूरम् आनंश मर्त्यम् ।
कपिर् बभस्तु तेजनं
स्वं जरायु गौर् इव ॥

१५ त्वेष इव सम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वेष इव सं च वि च रोरुवण्यते
यद् उत्तरद्रा उपरस्य खादति ।
शीर्ष्णा शिरो अप्ससाप्सो अर्दयन्न्
अंशून् बभस्तु हरितेभिर् आशुभिः ॥

१६ सुपर्णा वाचम् अक्रतोप

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णा वाचम् अक्रतोप द्यव्य्
आखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन् नियन्त्य् उपरस्य निष्कृतिं
पुरू रेतो दधिरे सूर्यस्युतः ॥ (Bhatt. (⟨ śvi/syū?))