०३०

सर्वाष् टीकाः ...{Loading}...

०१ यत् त्वा मांसे

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वा मांसे अपववौ
यन् मन्थे यद् ओदने ।
अग्निष् ट्वा विश्वभेषजस्
तस्मात् पात्व् अंहसः ॥

०२ यस् त्वा वात

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा वात आवात्य्
अधराद् उत्तराद् उत ।
आपो या विश्वशंभुवस्
तास् त्वा पात्व् अंहसः ॥ +++(read pāntv)+++

०३ अप त्वन् मृत्युम्

विश्वास-प्रस्तुतिः ...{Loading}...

अप त्वन् मृत्युं निरृतिम्
अप यक्ष्मं नि दध्मसि ।
यथा त्वम् अरपा अस
उदोजा उत्तरो भुवः ॥

०४ वैश्वानरो रश्मिभिर् नः

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो रश्मिभिर् नः पुनातु
वातः प्राणेनेषिरो नभोभिः ।
द्यावापृथिवी पयसा पयस्वती
ऋतावरी यज्ञिये मा पुनीताम् ॥

०५ प्रजापतिर् ऋतुभिः पञ्चभिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिर् ऋतुभिः पञ्चभिः
संवत्सरो धामभिः पातु विश्वैः ।
इहैव प्राणः सख्ये नो अस्तु
तम् आत्मनि पुनर् आ वेशयामि ॥

०६ वैश्वदेवीं सूनृताम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वदेवीं सूनृताम् आ रभध्वं
शुद्धा भवन्तः शुचयः पावकाः ।
तया गृणन्तः सधमादेषु
वयं स्याम पतयो रयीणाम् ॥

०७ वैश्वानरीं वर्चस आ

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरीं वर्चस आ रभध्वं
यस्या आशास् तन्वो वीतपृष्ठाः ।
ईडयेह सधमादं मदन्तो
ज्योक् पश्येम सूर्यम् उच्चरन्तम् ॥

०८ अवत्कं मम भेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

अवत्कं मम भेषजम्
अवत्कं परिवाचनम् ।
नराच्य् असि मा तुदो
वन्वाना रोगभेषजम् ॥

०९ शम्भुलेहम् इहा हर

विश्वास-प्रस्तुतिः ...{Loading}...

शम्भुलेहम् इहा हर
तम् उ क्षीरा उद् अस्यति ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥

१० नदीषु नड्वलासु कुम्भेषु

विश्वास-प्रस्तुतिः ...{Loading}...

नदीषु नड्वलासु
कुम्भेषु कलशेषु च
प्रतीषेचनभेषजम् ।
तत् ते कृणोमि भेषजम् +++(Bhatt. tate)+++
अद्धि मांसं पिबोदकं
पट्पटिङ्गं विपश्चलं वि पश्य ॥

११ अविदाम यद् ऐच्छाम

विश्वास-प्रस्तुतिः ...{Loading}...

अविदाम यद् ऐच्छाम
पिशाचक्षयणं हविः ।
तेन क्रव्यादो हन्मः
सर्वाश् च यातुधान्याः ॥

१२ इच्छन्ति त्वा पदातय

विश्वास-प्रस्तुतिः ...{Loading}...

इच्छन्ति त्वा पदातय
इच्छन्ति रथिनस् त्वा ।
क्रीणन्ति गोभिर् अश्वैर्
अमृतस्येव वा असि ॥

१३ अमम्रि नाम भेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

अमम्रि नाम भेषजं
पृथिव्या अध्य् उद्भृतम् ।
वक्ता तन् मह्यम् अब्रवीद्
इदं ह पारयाद् इति ॥

१४ चक्षुर् असि पुरुषस्य

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुर् असि पुरुषस्य
चक्षुर् गोश् चक्षुर् अर्वतः ।
चक्षुर् भूतस्य भव्यस्य
चक्षुर् अप्सरसाम् असि ॥

१५ चक्षुर् असि सुपर्णस्य

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुर् असि सुपर्णस्य
चक्षुर् अहेर् अथो शुनः ।
चक्षुः सर्वस्य पश्यतो
ऽथो यद् विश्वम् एजति ॥

१६ आददानं सहस्राक्षं प्रतिस्पाशनम्

विश्वास-प्रस्तुतिः ...{Loading}...

आददानं सहस्राक्षं
प्रतिस्पाशनम् अब्रुवम् ।
दर्शय मा यातुधानान्
दर्शय यातुधान्याः ॥