०२९

सर्वाष् टीकाः ...{Loading}...

०१ अग्नी रक्षोहा तिग्मस्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नी रक्षोहा तिग्मस् तिग्मशृङ्गो
हन्तु रक्षो नुदताम् अरातिम् ।
अपाघशंसम् अस्यतु ॥

०२ आ त एतु

विश्वास-प्रस्तुतिः ...{Loading}...

आ त एतु परावतो
बलम् ओजो दिवस् परि ।
आ गिरिभ्यः पर्वतेभ्य
आयुष् टे विश्वतो दधत् ॥

०३ पुनस् ते ऽसुम्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनस् ते ऽसुं पृथिवी ददातु
पुनर् द्यौर् देवो पुनर् अन्तरिक्षम् । +++(devo punar- sandhi?, RV 10.59.7b dyáur devī́ púnar)+++
पुनस् ते सोमस् तन्वं दधातु
पुनः पूषा पथ्यां या स्वस्तिः ॥

०४ कष्किषा कष्पिषा येवाषा

विश्वास-प्रस्तुतिः ...{Loading}...

कष्किषा कष्पिषा
येवाषा एषा ।
इष्टर्गव इषयन्तः
सैकताः पांसवाः ॥

०५ अदृष्टान् न दृष्टान्

विश्वास-प्रस्तुतिः ...{Loading}...

अदृष्टान् न दृष्टान् ।
दृष्टाँ अदृष्टान् धनपते
जहीन्द्रस्य वधेन ॥

०६ एताश् च विश्वरूपाश्

विश्वास-प्रस्तुतिः ...{Loading}...

एताश् च विश्वरूपाश् च
गृध्राः कोकाश् च ते हताः ॥

०७ कामे कामयस्व मा

विश्वास-प्रस्तुतिः ...{Loading}...

कामे कामयस्व मा
प्रतीची प्रति मा भव ।
माम् अनु प्र ते मनो
वत्सा पाकेव धावतु ॥

०८ अभीले अभिमादन्य् असौ

विश्वास-प्रस्तुतिः ...{Loading}...

अभीले अभिमादन्य्
असौ माम् अभि माद्यतु ।
विद्म पतत्रिण्या वयम्
इषुके नामकं तव ॥

०९ अहं ते मन

विश्वास-प्रस्तुतिः ...{Loading}...

अहं ते मन आ ददे
मनो मनोमुषिर् यथा ।
मयि ते मन आहितं
रथ इव रथवाहने ॥

१० उद् असौ सूर्यो

विश्वास-प्रस्तुतिः ...{Loading}...

उद् असौ सूर्यो अगान्
मह्यम् अवतुना सह ।
अहं विशां पुरोहितो
मधुहस्तो मधुजिह्वो
मयि वाग् अस्तु धर्णसी ॥

११ अहं विश्येन केतुना

विश्वास-प्रस्तुतिः ...{Loading}...

अहं विश्येन केतुना
समक्ष्ये मानुषेष्व् आ ।
अस्माकम् अस्तु केवलं बृहद्
दिशो अधि विश्वेषु राजसु ॥

१२ स्वादोश् चिन् मा

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादोश् चिन् मा स्वादीयांसं
मधोश् चिन् मधुमत्तरम् ।
प्रियाश् चित् सख्युर् अन्तरम्
आदित्यासः कृणोत मा ॥

१३ अग्ने ब्रह्म त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने ब्रह्म त्वं ब्रह्मासि
विद्धि त्वं प्रास्मभ्यं ब्रूहि ।
यदीदं तथा भविष्यसि यदि वा
नाथैतस्य हविषो वीह स्वाहा ॥

१४ वि पृच्छे द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

वि पृच्छे द्यावापृथिवी
वीन्द्रं वि बृहस्पतिम् ।
वि देवान् यज्ञियान् पृच्छे
व्य् असं जीवनाय कम् ॥ +++(Bhatt. (⟨ vy asuṃ?))+++

१५ विज्ञानायोद्यता प्रस्तुता स्रुग्

विश्वास-प्रस्तुतिः ...{Loading}...

विज्ञानायोद्यता प्रस्तुता स्रुग् इयं
यम राजन् हविर् इदं जुषस्व ।
अगतासोर् हविषो मादयस्व
निरृतिं गच्छतु यद् गतासोः ॥