सर्वाष् टीकाः ...{Loading}...
०१ यस्येदम् आ रजो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्येदम् आ रजो युजस्
तुजे जनं वनं स्वः ।
इन्द्रस्य नाधृषे शवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्येदम् आ रजो युजस्
तुजे जनं वनं स्वः ।
इन्द्रस्य नाधृषे शवः ॥
सर्वाष् टीकाः ...{Loading}...
०२ धृषाणं धृषतः शवः
विश्वास-प्रस्तुतिः ...{Loading}...
धृषाणं धृषतः शवः
पुरा यथायतिष्ठन् ।
इन्द्रस्य रन्त्यं महत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धृषाणं धृषतः शवः
पुरा यथायतिष्ठन् ।
इन्द्रस्य रन्त्यं महत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ स नो दधातु
विश्वास-प्रस्तुतिः ...{Loading}...
स नो दधातु तं रयिं
पुरुं पिशङ्गपेशसम् ।
इन्द्रः पतिस् तुविष्टमो जनेष्व् आ ॥
मूलम् ...{Loading}...
मूलम् (GR)
स नो दधातु तं रयिं
पुरुं पिशङ्गपेशसम् ।
इन्द्रः पतिस् तुविष्टमो जनेष्व् आ ॥
सर्वाष् टीकाः ...{Loading}...
०४ आयुर् अग्न इहा
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर् अग्न इहा वह
जातवेदस् तनूवशिन् ।
यथाहं ज्योग् इहासानि
प्रजानाम् अधिपा वशी ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर् अग्न इहा वह
जातवेदस् तनूवशिन् ।
यथाहं ज्योग् इहासानि
प्रजानाम् अधिपा वशी ॥
सर्वाष् टीकाः ...{Loading}...
०५ आयुर् इन्द्रो दधातु
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर् इन्द्रो दधातु म
आयुर् देवो बृहस्पतिः ।
आयुर् मे विश्वे देवा
अहोरात्रे च चक्रतुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर् इन्द्रो दधातु म
आयुर् देवो बृहस्पतिः ।
आयुर् मे विश्वे देवा
अहोरात्रे च चक्रतुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ आयुर् आयुष्या पवताम्
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर् आयुष्या पवतां
प्राणं प्राणो दधातु मे ।
देवा यच् चक्रुर् देवेभ्यः
स्वर् यन्तो यथायथम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर् आयुष्या पवतां
प्राणं प्राणो दधातु मे ।
देवा यच् चक्रुर् देवेभ्यः
स्वर् यन्तो यथायथम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उत्पतन्तु नभस्वतीः समुद्राद्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्पतन्तु नभस्वतीः
समुद्राद् अधि घोषिणीः ।
उत्स्याः समुद्रिया अपस्
ताभिष् ट्वा तर्पयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्पतन्तु नभस्वतीः
समुद्राद् अधि घोषिणीः ।
उत्स्याः समुद्रिया अपस्
ताभिष् ट्वा तर्पयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ या आपो दिव्या
विश्वास-प्रस्तुतिः ...{Loading}...
या आपो दिव्या
या वातात् परिजज्ञिरे ।
इन्द्रो मरुत्वांस् तृप्तात्मा
ताभिष् ट्वा तर्पयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या आपो दिव्या
या वातात् परिजज्ञिरे ।
इन्द्रो मरुत्वांस् तृप्तात्मा
ताभिष् ट्वा तर्पयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ याः शुष्का या
विश्वास-प्रस्तुतिः ...{Loading}...
याः शुष्का या हरिणीर्
या भूमिम् अनुवावृधुः ।
सर्वाः समग्रा ओषधीस्
ताभिष् ट्वा तर्पयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः शुष्का या हरिणीर्
या भूमिम् अनुवावृधुः ।
सर्वाः समग्रा ओषधीस्
ताभिष् ट्वा तर्पयामसि ॥
सर्वाष् टीकाः ...{Loading}...
१० आ नो मेधा
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो मेधा सुमतिर् विश्वरूपा
गिरो बृहतीर् आवेशयन्ती ।
ऋचो मे बह्वीर् न्य् अनक्तु गा इव
यथासाम भुवनेषु कर्णिनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ नो मेधा सुमतिर् विश्वरूपा
गिरो बृहतीर् आवेशयन्ती ।
ऋचो मे बह्वीर् न्य् अनक्तु गा इव
यथासाम भुवनेषु कर्णिनः ॥
सर्वाष् टीकाः ...{Loading}...
११ दीक्षा तपो मनसो
विश्वास-प्रस्तुतिः ...{Loading}...
दीक्षा तपो मनसो मातरिश्वा
बृहस्पतिर् वाचो अस्याः स योनिः ।
वेदांसि विद्या मयि सन्तु बह्वीर्
अग्नीषोमा यशो अस्मासु धत्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दीक्षा तपो मनसो मातरिश्वा
बृहस्पतिर् वाचो अस्याः स योनिः ।
वेदांसि विद्या मयि सन्तु बह्वीर्
अग्नीषोमा यशो अस्मासु धत्तम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ यद् अग्ने तपसा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अग्ने तपसा तप
उपप्रेक्षामहे वयम् ।
प्रियाः श्रुतस्य भूयास्म- +++(Bhatt. priyā(ḥ))+++
-आयुष्मन्तः सुमेधसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अग्ने तपसा तप
उपप्रेक्षामहे वयम् ।
प्रियाः श्रुतस्य भूयास्म- +++(Bhatt. priyā(ḥ))+++
-आयुष्मन्तः सुमेधसः ॥
सर्वाष् टीकाः ...{Loading}...
१३ यस् त्वा मातुर्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा मातुर् उत वा पितुः
परिजायमानम् अभिसंबभूव ।
तं त्वद् यक्ष्मम् अधि नाशयामः
सो ऽन्यस्मिं छ्रयातै प्रविष्टः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा मातुर् उत वा पितुः
परिजायमानम् अभिसंबभूव ।
तं त्वद् यक्ष्मम् अधि नाशयामः
सो ऽन्यस्मिं छ्रयातै प्रविष्टः ॥
सर्वाष् टीकाः ...{Loading}...
१४ यस् ते यक्ष्मो
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते यक्ष्मो हृदयेष्ठो
नाभिष्ठा उदरंगमः ।
अथो यः शिश्रिये परौ
तं त्वद् यक्ष्मम् अधि नाशयामः
सो ऽन्यस्मिं छ्रयातै प्रविष्टः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते यक्ष्मो हृदयेष्ठो
नाभिष्ठा उदरंगमः ।
अथो यः शिश्रिये परौ
तं त्वद् यक्ष्मम् अधि नाशयामः
सो ऽन्यस्मिं छ्रयातै प्रविष्टः ॥
सर्वाष् टीकाः ...{Loading}...
१५ शीर्षरोगम् अङ्गरोगं स्नावबृहम्
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्षरोगम् अङ्गरोगं
स्नावबृहम् अभिशाचिं विसल्पकम् ।
यस् ते यक्ष्मो मज्जसु परुःसु यो गुदासु
तं त्वद् यक्ष्मम् अधि नाशयामः
सो ऽन्यस्मिं छ्रयातै प्रविष्टः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीर्षरोगम् अङ्गरोगं
स्नावबृहम् अभिशाचिं विसल्पकम् ।
यस् ते यक्ष्मो मज्जसु परुःसु यो गुदासु
तं त्वद् यक्ष्मम् अधि नाशयामः
सो ऽन्यस्मिं छ्रयातै प्रविष्टः ॥