०२७

सर्वाष् टीकाः ...{Loading}...

०१ यत् किं चासौ

विश्वास-प्रस्तुतिः ...{Loading}...

यत् किं चासौ मनसा यच् च वाचा
यज्ञैर् जुहोति हविषा यजुर्भिः ।
तन् मृत्युना निरृतिः संविदाना
पुरा दृष्टाद् आज्यं हन्त्व् अस्य ॥

०२ यातुधाना निरृतिर् आद्

विश्वास-प्रस्तुतिः ...{Loading}...

यातुधाना निरृतिर् आद् उ रक्षस्
ते अस्य घ्नन्त्व् अनृतेन सत्यम् ।
इन्द्रेषिता आज्यम् अस्य मथ्नन्तु
मा तत् सं पादि यद् असौ जुहोति ॥

०३ परि त्वाग्ने पुरम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वाग्ने पुरं वयं
विप्रं सहस्य धीमहि ।
धृषद्वर्ण दिवेदिवे
हन्तारं भङ्गुरावताम् ॥

०४ स्वर्जिद् अधिराजौ श्येनौ

विश्वास-प्रस्तुतिः ...{Loading}...

स्वर्जिद् अधिराजौ
श्येनौ संपातिनाव् इव ।
आज्यं पृतन्यतो हतं
यो अस्मान् पृतनायति ॥

०५ पृथिव्यै वनस्पतिभ्य ओषधीभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

पृथिव्यै वनस्पतिभ्य ओषधीभ्यो
ऽग्नये ऽधिपतये स्वाहा ॥

०६ अन्तरिक्षाय प्राणाय वयोभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षाय प्राणाय वयोभ्यो
वायवे ऽधिपतये स्वाहा ॥

०७ दिवे चक्षुषे नक्षत्रेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

दिवे चक्षुषे नक्षत्रेभ्यः
सूर्यायाधिपतये स्वाहा ॥

०८ पिप्पल्यः सम् अवदन्त

विश्वास-प्रस्तुतिः ...{Loading}...

पिप्पल्यः सम् अवदन्त-
-आयतीर् जननाद् अधि ।
यं जीवम् अश्नवामहै
न स रिष्याति पूरुषः ॥

०९ पिप्पली क्षिप्तभेषज्य् उतावविद्धभेषजी

विश्वास-प्रस्तुतिः ...{Loading}...

पिप्पली क्षिप्तभेषज्य्
उतावविद्धभेषजी । +++(Bhatt. utātavidyabheṣajī (⟨ uta cāvidhyabheṣajī?))+++
तां देवाः सम् अकल्पयन्न्
अलं जीवातवा इति ॥

१० असुरास् त्वा न्य्

विश्वास-प्रस्तुतिः ...{Loading}...

असुरास् त्वा न्य् अखनन्
देवास् त्वोद् अवपन् पुनः । +++(Bhatt. devās te (⟨ stve?))+++
वातीकृतस्य भेषजी
पिप्पली क्षिप्तभेषजी ॥

११ यद् उलूको वदति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उलूको वदति मोघम् एतद्
यत् कपोतः पदम् अग्नौ कृणोति ।
यस्य दूतौ प्रहिताव् इदम् एयथुस्
तस्मै यमाय नमो ऽस्तु मृत्यवे ॥

१२ यस् ते दूतो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते दूतो निरृत आजगाम-
-अप्रहितः प्रहितो वा गृहं नः ।
कपोतोलूकाव् अपदं तद् अस्त्व्
अवैरहत्यम् इदम् आ जगन्थ
सुवीरताया इदम् आ ससत्थ ॥

१३ यः प्रथमः प्रवत

विश्वास-प्रस्तुतिः ...{Loading}...

यः प्रथमः प्रवत आससाद
बहुभ्यः पन्थाम् अनुपस्पशानः ।
य ईशे अस्य द्विपदो यश् चतुष्पदस्
तस्मै यमाय नमो ऽस्तु मृत्यवे ॥

१४ यथासितः प्रथयते वशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथासितः प्रथयते वशाँ अनु
वपूंषि कृण्वन्न् असुरस्य मायया ।
एवा मे शेपः सहसायम् अर्क
एनाङ्गेन संसमकं कृणोतु ॥

१५ यावद् अङ्गीनं पारस्वतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् अङ्गीनं पारस्वतं +++(Bhatt. pārśvataṃ (⟨ pārasvataṃ = ŚS))+++
हास्तिनं गार्दभं च यत् ।
यावद् अश्वस्य वाजिनस्
तावन् मे वर्धतां पसः ॥

१६ यथा पसस् तायादरम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा पसस् तायादरं
वातेन स्थूलभं कृतम् ।
यावत् परस्वतः पसस्
तावन् मे वर्धतां पसः ॥