०२५

सर्वाष् टीकाः ...{Loading}...

०१ यूपे गर्ते विद्वेषणम्

विश्वास-प्रस्तुतिः ...{Loading}...

यूपे गर्ते विद्वेषणं
देवानां वर्चसा कृतम् ।
अग्निर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥

०२ यथाहिं द्वेष्टि पुरुषो

विश्वास-प्रस्तुतिः ...{Loading}...

यथाहिं द्वेष्टि पुरुषो
अहिर् वा द्वेष्टि पुरुषम् ।
गिरिर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥

०३ नानानि वाम् आकूतानि

विश्वास-प्रस्तुतिः ...{Loading}...

नानानि वाम् आकूतानि (Bhatt. nānānaṃ)
नाना चित्तानि सन्तु वाम् ।
विष्वञ्चौ पर्य् आ वर्तेथां
यथा वां न सहासति ॥

०४ अत्र द्वे कमले

विश्वास-प्रस्तुतिः ...{Loading}...

अत्र द्वे कमले द्वे तुण्डे (Bhatt. aḍadve kamaḍadve)
न मशीकतं तं गलापते । (Bhatt. namaśītakam ।)
भङ्गलापतो (⟨ भङ्गुरावतो) दह ॥

०५ एतद् यत् ते

विश्वास-प्रस्तुतिः ...{Loading}...

एतद् यत् ते यद् वा यद् वा
न चासन् नो च ते भवत् ।
स्वप्ने वित्तं यथा धनं
नश्याद् इद् एतद् एततः ॥

०६ आगिलो गिलापापचितो गिल

विश्वास-प्रस्तुतिः ...{Loading}...

आगिलो गिलापापचितो गिल ।
नश्याद् ब्रध्नकम् अर्भकम् ॥

०७ दीर्घायुत्वाय सहसे मह्या

विश्वास-प्रस्तुतिः ...{Loading}...

दीर्घायुत्वाय सहसे
मह्या अरिष्टतातये ।
सुपर्णो मह्यम् अब्रवीद्
एतद् आश्लिष्टभेषजम् ॥

०८ सक्तून् इव तितüना

विश्वास-प्रस्तुतिः ...{Loading}...

सक्तून् इव तितüना पुनन्तो
विद्वांसो वाचम् अक्रत ।
अङ्गेभ्यो विश्वाङ्गेभ्यः
प्र ते छिनद्म्य् आश्लिष्टम् ॥

०९ अवच्छिन्ध्य् आश्लिष्टम् ऊर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अवच्छिन्ध्य् आश्लिष्टम्
ऊर्वा ह्य् असि भेषजी । (Bhatt. urvā)
दिव्यः सुपर्णो अब्रविद्
एतद् आश्लिष्टभेषजम् ॥

१० अभिभूर् अहम् आगमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभिभूर् अहम् आगमं
विश्वकर्मा स्वायुधः ।
अहं मित्रस्य कल्पयन्न् (Bhatt. kalpayan āsv)
आस्व् आशासु दुष्टरः ॥

११ अहं समित्ययनो अहम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं समित्ययनो
अहं विशां पुरोहितः ।
अहं मित्राणि कल्पयन्
मयि वाग् अस्तु धर्णसी ॥

१२ आ वश् चक्षुर्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वश् चक्षुर् आ वो वाचम्
आ वः समितिं ददे ।
योगक्षेमं व आदाय-
-अहं भूयासम् उत्तमः ॥

१३ ब्रह्मणाग्निः संविदानो रक्षोहा

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मणाग्निः संविदानो
रक्षोहा नुदताम् इतः ।
अरायो यस् ते तन्वं
दुर्णामा योनिम् आशये ॥

१४ यस् ते ऽरायस्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते ऽरायस् तन्वं
दुर्णामा योनिम् आशये ।
अग्निष् टं ब्रह्मणा युजा
रक्षोहा नुदताम् इतः ॥

१५ यान्य् अभ्वानि रक्षांसि

विश्वास-प्रस्तुतिः ...{Loading}...

यान्य् अभ्वानि रक्षांसि
ये ऽराया यातुधान्यः ।
अग्निष् ट्वा शग्मया तन्वा
रक्षोहा पातु तेभ्यः ॥