०२४

सर्वाष् टीकाः ...{Loading}...

०१ न तं यक्ष्मा

विश्वास-प्रस्तुतिः ...{Loading}...

न तं यक्ष्मा अरुन्धते
नैनं शपथो अश्नुते ।
यं भेषजस्य गुल्गुलोः
सुरभिर् गन्धो अश्नुते ॥

०२ यं गुल्गुलोर् भेषजस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यं गुल्गुलोर् भेषजस्य
सुरभिर् गन्धो अश्नुते ।
विष्वञ्चस् तस्माद् यक्ष्मा +++(Bhatt. viśva(⟨ ṣva*)ñcas)+++
मृगा इष्वा इवेरते ॥

०३ यद् गुल्गुलु सैन्धवम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् गुल्गुलु सैन्धवं
यद् वा घासि समुद्रियम् ।
उभयोर् अग्रभं नाम-
-अस्मा अरिष्टतातये ॥

०४ देवा एतं मधुना

विश्वास-प्रस्तुतिः ...{Loading}...

देवा एतं मधुना संयुतं यवं
सरस्वत्याम् अधि मणाव् अचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः
कीनाशा आसन् मरुतः सुदानवः ॥

०५ बृहत्पलाशे सुभग ऊर्ध्वस्वप्न

विश्वास-प्रस्तुतिः ...{Loading}...

बृहत्पलाशे सुभग
ऊर्ध्वस्वप्न ऋतावरि ।
मातेव पुत्रेभ्यो मृड
केशेभ्यो नः शमि ॥

०६ यस् ते मदो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते मदो +ऽवकेशो यो विकेशो +++(Bhatt. vi(⟨ va?))+++
येनाभिहस्यं पुरुषं कृणोषि ।
भ्रूणघ्नोविरिवारा(च्) चर त्वं
तस्य ते प्रजायाः सुवामि केशान् ॥

०७ आकूतिं देवीं सुभगाम्

विश्वास-प्रस्तुतिः ...{Loading}...

आकूतिं देवीं सुभगां पुरो दधे
चित्तस्य माता सुहवा नो अस्तु ।
याम् आशाम् एमि केवली सा मे अस्तु
विदेयम् एनां मनसि प्रविष्टाम् ॥

०८ आकूत्या नो बृहस्पत

विश्वास-प्रस्तुतिः ...{Loading}...

आकूत्या नो बृहस्पत
आकूत्या न उपा गहि ।
अथो भगस्य नो धेह्य्
अथो नः सुहवो भव ॥

०९ बृहस्पतिर् म आकूतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिर् म आकूतिम् आङ्गिरसः
प्रति जानातु वाचम् एताम् ।
यस्य देवा देवताः सम्बभूवुः
सुषुप्रणीः कामो अन्व् एत्व् अस्मान् ॥

१० मनो न्व् आह्वामहि

विश्वास-प्रस्तुतिः ...{Loading}...

मनो न्व् आह्वामहि
नाराशंसेन स्तोमेन ।
पितॄणां च मन्मभिः ॥

११ आ न एतु

विश्वास-प्रस्तुतिः ...{Loading}...

आ न एतु मनः पुनः
क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्याय दृशे ॥

१२ पुनर् नः पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् नः पितरो मनो
ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥

१३ वयं सोम व्रते

विश्वास-प्रस्तुतिः ...{Loading}...

वयं सोम व्रते तव
मनस् तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥

१४ वर्चो मे मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चो मे मित्रावरुणा
वर्चो देवी सरस्वती ।
वर्चो मे अश्विनोभा
धत्तं पुष्करस्रजा ॥

१५ यच् च वर्चो

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च वर्चो यजमाने
यच् च यज्ञे ऽध्य् आहितम् ।
सुरायां बभ्रु यद् वर्चस्
तस्य भक्षीय वर्चसः ॥

१६ या उत्सेभ्यः प्रस्रवन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

या उत्सेभ्यः प्रस्रवन्ति
दिवो धारा नदीभ्यः ।
तासां त्वा सर्वासाम् अपाम्
अभि षिञ्चामि वर्चसा ॥

१७ यद् राजानं शकधूमम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् राजानं शकधूमं
नक्षत्राण्य् अकृण्वत ।
भद्राहम् अस्मै प्रायच्छन्
ततो राष्ट्रम् अजायत ॥

१८ भद्राहम् अस्तु नः

विश्वास-प्रस्तुतिः ...{Loading}...

भद्राहम् अस्तु नः सायं
भद्राहं प्रातर् अस्तु नः ।
भद्राहम् अस्मभ्यं त्वं
शकधूम सदा कृणु ॥

१९ यो नो भद्राहम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो भद्राहम् अकरः
सायं प्रातर् अथो दिवा ।
तस्मै ते नक्षत्रराज
शकधूम सदा नमः ॥

२० यद् आहुः शकधूमाहम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आहुः शकधूमाहं नक्षत्राणां
प्रथमजं ज्योतिर् अग्रे ।
तन् नः सनिं मधुमतीं कृणोतु
रयिं च नः सर्ववीरं नि यच्छात् ॥