०२१

सर्वाष् टीकाः ...{Loading}...

०१ यथा सूर्यो नक्षत्राणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यो नक्षत्राणां
वर्चांसि युवते दिवः ।
एवा सपत्नानाम् अहं
वर्च इन्द्रियम् आ ददे ॥

०२ यच् च वर्चः

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च वर्चः सपत्नानां
भ्रातृव्येषु च यद् यशः ।
तद् इन्द्रो वृत्रहा धाता
सविता दीधरन् मयि ॥

०३ याश् च गावः

विश्वास-प्रस्तुतिः ...{Loading}...

याश् च गावः सपत्नानां
भ्रातृव्येषु च यद् वसु ।
तन् निर् ज्येयम् इव जीत्वा (Bhatt. ye(⟨ jye?))
सविता दीधरन् मयि ॥

०४ सत्यम् एव जयतु

विश्वास-प्रस्तुतिः ...{Loading}...

सत्यम् एव जयतु नानृतं
सत्यस्य पन्था ऋजुर् अस्तु साधुः ।
सत्यं वदन्तः समिधे विधेम
सत्येन द्यावापृथिवी अप्रथेताम् ॥

०५ वाग्भागस्य च सत्येन

विश्वास-प्रस्तुतिः ...{Loading}...

वाग्भागस्य च सत्येन
रुद्रस्य सुमनस्यया ।
इन्द्रेणाधिब्रुवता वयं
विशं प्राशि विदेमहि ॥

०६ या ते रुद्रेषुर्

विश्वास-प्रस्तुतिः ...{Loading}...

या ते रुद्रेषुर् आयता
वाचि वा ते अरंकृता ।
येनेदं विवदामहे
तस्य प्राशं त्वं जहि ॥

०७ जहि त्वं तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

जहि त्वं तस्य प्राशम्
उत सत्याम् उतानृताम् ।
यो अस्मान् इन्द्र वृत्रहन्
वाचा प्राशं जिगीषति ॥

०८ उत् प्रमुत् प्राण

विश्वास-प्रस्तुतिः ...{Loading}...

उत् प्रमुत् प्राण
बह्वीह सीदेदं पृण ।
उतोदिव स्म सिञ्चतात्
समुद्रस्येव मध्यतः ॥

०९ समुद्रश् च शतधारः

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रश् च शतधारः
सहस्रधारो अक्षितः ।
पुरस्ताद् इन्द्र आचरत्
पूर्णगोष्ठ इदं पृण ॥

१० इहोप पृण सम्

विश्वास-प्रस्तुतिः ...{Loading}...

इहोप पृण सं पृण
वृष प्रजननाः कृधि ।
इह गावः प्र जायध्वम्
इहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो
अभि प्राशा नि षीदतु ॥

११ ज्येष्ठघ्न्यै नक्षत्राणाम् अह्ने

विश्वास-प्रस्तुतिः ...{Loading}...

ज्येष्ठघ्न्यै नक्षत्राणाम्
अह्ने रात्र्या इदं नमः ।
जुहोमि विश्वकर्मणे
स शिवो मृडयाति नः ॥

१२ मा ज्येष्ठं वधीद्

विश्वास-प्रस्तुतिः ...{Loading}...

मा ज्येष्ठं वधीद् अयम् अग्न एषां
मूलबर्हणं परि वृणक्त्य् एनम् ।
ग्राह्याः पाशान् वि चृत प्रजानन्
पितापुत्रौ मातरं मुञ्च सर्वान् ॥

१३ उन् मुञ्च पाशांस्

विश्वास-प्रस्तुतिः ...{Loading}...

उन् मुञ्च पाशांस् त्वम् अग्न एषां
त्रयस् त्रिभिर् उत्थिता येभिर् आसन् ।
मायं हिंसीः पितरं वर्धमानो (Bhatt. hiṃsīḥ (⟨ sīt))
मा मातरं प्र मिनीर् या जनित्री ॥ (Bhatt. yā (⟨ dyā))

१४ ग्राह्याः पाशान् वि

विश्वास-प्रस्तुतिः ...{Loading}...

ग्राह्याः पाशान् वि चृत ये सिनन्ति
यां ब्रह्मणा परिवृञ्जन्ति वेधसः । (Bhatt. yāṃ (⟨ yān))
उन् मुञ्च पाशांस् त्वम् अग्न एषां
त्वज्जातस्यान्व् अहर्-अहर् अस्तु भद्रम् ॥

१५ नि वर्तध्वं मानु

विश्वास-प्रस्तुतिः ...{Loading}...

नि वर्तध्वं मानु गात-
-अस्मान् सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू
अस्य वर्धयतं रयिम् ॥

१६ पुनर् एना नि

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् एना नि वर्तय
पुनर् एना उपा कुरु ।
इन्द्र एना नि यच्छत्व्
अग्निर् एना उपाजतु ॥

१७ परि वो विश्वतो

विश्वास-प्रस्तुतिः ...{Loading}...

परि वो विश्वतो दध
ऊर्जा घृतेन पयसा ।
ये देवाः के च यज्ञियास्
ते रय्या सं सृजन्तु मा ॥