०१८

सर्वाष् टीकाः ...{Loading}...

०१ यास् ते हिरा

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते हिरा धमनयो
ऽङ्गान्य् अनु विष्ठिताः ।
तासां ते सर्वासां साकं
निर् विषाणि ह्वयामसि ॥

०२ यां ते रुद्र

विश्वास-प्रस्तुतिः ...{Loading}...

यां ते रुद्र इषुम् आस्थद् (Bhatt. āsta(⟨ stha)d)
अङ्गेभ्यो हृदयाय च ।
इमां ताम् अद्य ते वयं
विषूचीं वि वृहामसि ॥

०३ नमस् ते रुद्रास्यते

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते रुद्रास्यते
नमः प्रतिहिताभ्यः ।
नमो विसृज्यमानाभ्यो
नमस् त आयताभ्यः ॥

०४ अवाचीः परि मूर्ध्नो

विश्वास-प्रस्तुतिः ...{Loading}...

अवाचीः परि मूर्ध्नो
यास् ते धमनयः शतम् ।
तास् ते प्र भिद्यन्तां
पृथग् अनु त्यं लोहितावटम् ॥

०५ स्यन्दन्तां रोदनावतीर् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

स्यन्दन्तां रोदनावतीर्
अनु त्यं लोहितावटम् ।
यथास्याम् अन्तर् न रंसन्ताम् (Bhatt. raṃsantā)
अनुकूलम् इवोदकम् ॥ (Bhatt. anukūla(m))

०६ प्रतीचीनः सूर्य एतु

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीनः सूर्य एतु
प्रतीचीः स्रवतः कृताः ।
अवाचीस् ते अस्नः कुल्या
इयं तृणत्त्व् ओषधीः ॥

०७ इमं यवम् अष्टायोगैः

विश्वास-प्रस्तुतिः ...{Loading}...

इमं यवम् अष्टायोगैः
षड्योगेभिर् अचर्कृषुः ।
स घा ते तन्वो रपः
प्रतीचीनम् अप व्ययत् ॥

०८ न्यग् वातो वाति

विश्वास-प्रस्तुतिः ...{Loading}...

न्यग् वातो वाति
न्यक् तपति सूर्यः ।
नीचीनम् अघ्न्या दुहे
न्यग् भवतु ते रपः ॥

०९ आप इद् वा

विश्वास-प्रस्तुतिः ...{Loading}...

आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपः समुद्रार्था यतीः
परा वहन्तु ते रपः ॥

१० अमी ये युधम्

विश्वास-प्रस्तुतिः ...{Loading}...

अमी ये युधम् आयन्ति
केतून् कृत्वानीकशः ।
इन्द्रस् तान् पर्य् अहार् दाम्ना
तान् अग्ने सन्द्या त्वम् ॥

११ यावतीः सिच आयन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यावतीः सिच आयन्त्य्
अनीकानि यति ष्टन् ।
इन्द्रस् तान् पर्य् अहार् दाम्ना
तान् अग्ने सन्द्या त्वम् ॥

१२ सं परमान् सम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं परमान् सम् अवमान् (Bhatt. paramāṃ)
अथो सन्द्यानि मध्यमान् ।
इन्द्रस् तान् पर्य् अहार् दाम्ना
तान् अग्ने सन्द्या त्वम् ॥

१३ सन्दानं वो बृहस्पतिः

विश्वास-प्रस्तुतिः ...{Loading}...

सन्दानं वो बृहस्पतिः
सन्दानं सविता करत् ।
सन्दानम् इन्द्रश् चाग्निश् च
सन्दानं भगो अश्विना ॥

१४ यास् ते रुचो

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते रुचो देव सूर्य-
-उद्यतो दिव्य् आतताः ।
ताभिर् माम् अद्य सर्वाभिर्
मनुष्येभ्यो रुचे कृणु ॥

१५ रुचे मा धेहि

विश्वास-प्रस्तुतिः ...{Loading}...

रुचे मा धेहि ब्रह्मसु
रुचे राजसु धेहि मा ।
रुचे विश्येषु शूद्रेषु
मयि धेहि रुचे रुचिम् ॥

१६ या रुचो हिरण्ये

विश्वास-प्रस्तुतिः ...{Loading}...

या रुचो हिरण्ये
या अग्नौ याश् च सूर्ये ।
इन्द्राग्नी मयि ता रुचो
रुचो धेहि बृहस्पते ॥