०१७

सर्वाष् टीकाः ...{Loading}...

०१ यन्तासि यच्छसे हस्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन्तासि यच्छसे हस्तम्
अप रक्षांसि सेधसि ।
प्रजां धनं च गृह्णानः
परिहस्तो अभूद् अयम् ॥

०२ परिहस्त वि धारय

विश्वास-प्रस्तुतिः ...{Loading}...

परिहस्त वि धारय
योनिं गर्भाय कर्तवे ।
मर्यादे पुत्रम् आ धेहि
तं त्वम् आ गमयागम ॥

०३ यं परिहस्तम् अबिभर्

विश्वास-प्रस्तुतिः ...{Loading}...

यं परिहस्तम् अबिभर्
अदितिः पुत्रकाम्या ।
त्वष्टा तम् अस्या आ बध्नाद्
यथा पुत्रं सुवाद् इति ॥

०४ आगच्छत आगतस्य नाम

विश्वास-प्रस्तुतिः ...{Loading}...

आगच्छत आगतस्य
नाम गृह्णाम्य् आयतः ।
इन्द्रस्य वृत्रघ्नो राज्ञो
वासवस्य शतक्रतोः ॥

०५ येन सूर्यां सावित्रीम्

विश्वास-प्रस्तुतिः ...{Loading}...

येन सूर्यां सावित्रीम्
अश्विनोहतुः पथा ।
तेन सम् अब्रवीद् भगो
जायाम् आ वहताद् इति ॥

०६ यस् ते अङ्कुशो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते अङ्कुशो वसुदानो
बृहन्न् इन्द्र हिरण्ययः ।
तेना जनीयते जायां
त्वं धेहि शतक्रतो ॥

०७ त्वं नो मेधे

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो मेधे प्रथमा
गोभिर् अश्वेभिर् आ गहि ।
त्वं सूर्यस्य रश्मिषु
त्वं नो असि यज्ञिया ॥

०८ मेधाम् अहं प्रथमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

मेधाम् अहं प्रथमां
ब्रह्मण्वतीम् ऋषिष्टुताम् ।
प्रपीतां ब्रह्मचारिभिर् ।
देवानाम् अवसा वृणे ॥

०९ मेधां सायं मेधाम्

विश्वास-प्रस्तुतिः ...{Loading}...

मेधां सायं मेधां प्रातर्
मेधां मध्यन्दिनं परि ।
मेधां सूर्येणोद्यता-
-उदीराणा उ तुष्टुम ॥ +++(?; Bhatt. tastamaḥ (⟨ bhuḥ?))+++

१० पार्थिवस्य रसे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

पार्थिवस्य रसे देवा
भगस्य तन्वो बले ।
आयुर् अस्मै सोमो
वर्च आ धाद् बृहस्पतिः ॥

११ आयुर् अस्मै धेहि

विश्वास-प्रस्तुतिः ...{Loading}...

आयुर् अस्मै धेहि जातवेदः
प्रजां त्वष्टर् अधिनिधेह्य् ओजः ।
रायस्पोषं सवितर् आ सुवास्मै
शतं जीवाति शरदस् तवायम् ॥

१२ आशीर् ण ऊर्जम्

विश्वास-प्रस्तुतिः ...{Loading}...

आशीर् ण ऊर्जम् उत सुप्रजास्त्वं
दक्षं दधातु द्रविणं सुवर्चसम् ।
संजयन् क्षेत्राणि सहसाहम् इन्द्र
कृण्वानो अन्यान् अधरान् सपत्नान् ॥

१३ आयम् अगन् सविता

विश्वास-प्रस्तुतिः ...{Loading}...

आयम् अगन् सविता क्षुरेण-
-उष्णेन वाय उदकेनेहि ।
आदित्या रुद्रा वसवः सचेतसः
सोमस्य राज्ञो ऽवपन् प्रचेतसः ॥ +++(Bhatt. (a)vapan)+++

१४ येनावपत् सविता क्षुरेण

विश्वास-प्रस्तुतिः ...{Loading}...

येनावपत् सविता क्षुरेण
सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदम् अस्य-
-अस्रामो दीर्घायुर् अयम् अस्तु वीरः ॥ +++(Bhatt. -āśrā(⟨ srā)mo)+++

१५ अदितिः श्मश्रु वपत्व्

विश्वास-प्रस्तुतिः ...{Loading}...

अदितिः श्मश्रु वपत्व्
आप उन्दन्तु वर्चसा ।
धारयतु प्रजापतिः
पुनःपुनः सुवप्तवे ॥