०१६

सर्वाष् टीकाः ...{Loading}...

०१ अस्थाद् द्यौर् अस्थात्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
तिष्ठन्ति पर्वता इमे
स्थामन्न् अश्वा अरंसत ॥

०२ य उदानड् व्यायने

विश्वास-प्रस्तुतिः ...{Loading}...

य उदानड् व्यायने
य उदानट् परायणे ।
आवर्तनं निवर्तनं
यो गोपा अपि तं हुवे ॥

०३ आवृतो न्यावृतो ऽभ्यवर्तनम्

विश्वास-प्रस्तुतिः ...{Loading}...

आवृतो न्यावृतो
ऽभ्यवर्तनम् आयनम् ।
अग्नेश् चतस्र आवृतस्
ताभिष् ट्वा तर्पयामसि ॥

०४ जातवेदो नि वर्तय

विश्वास-प्रस्तुतिः ...{Loading}...

जातवेदो नि वर्तय
शतं ते सन्त्व् आवृतः
सहस्रं त उपावृतः ।
ताभिर् एनं नि वर्तय ॥

०५ अदारसृद् भवतु देव

विश्वास-प्रस्तुतिः ...{Loading}...

अदारसृद् भवतु देव सोम-
-अस्मिन् यज्ञे मरुतो मृडता नः ।
मा नो विदद् अभिभा मो अशस्तिर्
मा नः प्रापद् दुच्छुना द्वेष्या या ॥ +++(Bhatt. prāpat ducch-)+++

०६ यो अद्य दैव्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यो अद्य दैव्यो वधो
जिघांसन् न उपायति ।
युवं तं मित्रावरुणव्
अस्मद् यावयतं परि ॥

०७ इतश् चामुतश् चाघम्

विश्वास-प्रस्तुतिः ...{Loading}...

इतश् चामुतश् चाघं
वरुण यावय ।
वि महच् छर्म यच्छ
वरीयो यावया वधम् ॥

०८ अपेन्द्र प्राचो मघवन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

अपेन्द्र प्राचो मघवन्न् अमित्रान्
अपापाचो अभिभूते नुदस्व ।
अपोदीचो अप शूराधराच
उरौ यथा तव शर्मन् मदेम ॥

०९ तेन भूतस्य हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

तेन भूतस्य हविषा
पुनर् आ प्यायताम् अयम् ।
जायां याम् अस्मा अविदं
सा रसेनाभि वर्धताम् ॥

१० अभि वर्धतां प्रजया

विश्वास-प्रस्तुतिः ...{Loading}...

अभि वर्धतां प्रजया-
-अभि राष्ट्रेण वर्धताम् ।
ईषा सहस्रवीर्याव्
इमौ स्ताम् अनुपक्षितौ ॥

११ त्वष्टा जायाम् अजनयत्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा जायाम् अजनयत्
त्वष्टास्यै त्वां पतिं दधौ ।
त्वष्टा सहस्रम् आयूंषि
दीर्घम् आयुः कृणोतु वाम् ॥ +++(Bhatt. mā ॥)+++

१२ अन्तरिक्षेण पतति विश्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षेण पतति
विश्वा भूतावचाकशत् ।
शुनो दिव्यस्यैतन् महस्
तस्मा एतेन हविषा जुहोमि ॥

१३ अप्सु ते जन्म

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सु ते जन्म दिवि ते सधस्थं
समुद्र आत्मा महिमा ते पृथिव्याम् ।
शुनो दिव्यस्यैतन् महस्
तस्मा एतेन हविषा जुहोमि ॥

१४ ये त्रयः कालकाञ्जा

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्रयः कालकाञ्जा
दिवि देवा इव श्रिताः ।
तान् सर्वान् अह्व ऊतये
ऽस्मा अरिष्टतातये ॥

१५ यः पुरुषं हूर्च्छयसि

विश्वास-प्रस्तुतिः ...{Loading}...

यः पुरुषं हूर्च्छयसि
श्वा दिव्यो अवीरहा ।
तं त्वाहं ब्रह्मणा नुदे
पुरुषं मा परा वधीः ॥

१६ यः पिशङ्गो अयोदंष्ट्रः

विश्वास-प्रस्तुतिः ...{Loading}...

यः पिशङ्गो अयोदंष्ट्रः
श्वा दिव्यः परिप्लवः ।
तस्याहं नाम जग्रभ-
-अस्मा अरिष्टतातये
अयं नो जीवताद् इति ॥

१७ अयं नो नभसस्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं नो नभसस् पतिः
संस्फानो अभि रक्षतु ।
असमातिं गृहेषु नः ॥

१८ त्वं नो नभसस्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो नभसस् पतिर्
ऊर्जं गृहेषु धारय ।
आ पुष्टम् एत्व् आ वसु ॥

१९ देव संस्फान सहस्रापोषस्येशिषे

विश्वास-प्रस्तुतिः ...{Loading}...

देव संस्फान सहस्रापोषस्येशिषे ।
तस्य नो धेहि तस्य ते भक्षीमहि
तस्य ते भक्तिवांसो भूयास्म स्वाहा ॥