०१५

सर्वाष् टीकाः ...{Loading}...

०१ सं जानतां मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

सं जानतां मनसा सं चिकित्वा +++(Bhatt. cikittā (⟨ tvā))+++
मा युत्सत मन्युना दैव्येन ।
मा घोष उत्थाद् बहुले
विनिर्हते मेषुः पप्तद्
इन्द्रस्याहन्य् आगते ॥

०२ सं वो मनांसि

विश्वास-प्रस्तुतिः ...{Loading}...

सं वो मनांसि सं व्रता
सम् आकूतीर् नयामसि ।
इमे ये विव्रता स्थ
तान् वः सं ज्ञपयामसि ॥

०३ सञ्ज्ञपनं वो मनसो

विश्वास-प्रस्तुतिः ...{Loading}...

संज्ञपनं वो मनसो
अथो सं ज्ञपनं हृदः ।
अथो भगस्य यच् छ्रान्तं
तेन सं ज्ञपयाति वः ॥

०४ सं वः पृच्यन्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं वः पृच्यन्तां तन्वः
सं मनांसि सम् उ त्वचः ।
सं वो ब्रह्मणस्पतिः
सोमः सं ज्ञपयाति वः ॥

०५ सञ्ज्ञानं नः स्वेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

संज्ञानं नः स्वेभ्यः
संज्ञानम् अरणेभ्यः ।
संज्ञानम् अश्विना युवम्
इहास्मासु नि यच्छतम् ॥

०६ यथादित्या वसवः सम्बभूवुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यथादित्या वसवः संबभूवुर्
मरुद्भिर् उग्रा अहृणीयमानाः ।
एवा त्रिणामन्न् अहृणीयमान
इमं जनं संमनसं कृणु त्वम् ॥

०७ निर् अमुन् नुद

विश्वास-प्रस्तुतिः ...{Loading}...

निर् अमुन् नुद ओकसः
सपत्नो यः पृतन्यति ।
निर्बाध्येन हविषा-
-इन्द्र एनं पराशरीत् ॥

०८ इहि तिस्रः परावत

विश्वास-प्रस्तुतिः ...{Loading}...

इहि तिस्रः परावत
इहि पञ्च जनाँ अति ।
इहि सप्ताति रोचना
यावत् सूर्यो असद् दिवि ॥

०९ परमां त्वा परावतम्

विश्वास-प्रस्तुतिः ...{Loading}...

परमां त्वा परावतम्
इन्द्रो देवो अजीगमत् ।
यथा न पुनर् आयसि
शश्वतीभ्यः समाभ्यः ॥

१० प्रतीचीनफलो हि त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाँ अधि
वरीयो यावया त्वम् ॥ +++(Bhatt. varoyo (misprint?))+++

११ यच् च भ्रातृव्यः

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च भ्रातृव्यः शपति
यच् च जामिः शपाति नः ।
ब्रह्मा यन् मन्युतः शपात्
सर्वं तन् नो अधस्पदम् ॥

१२ अघद्विष्टा देवजूता वीरुच्

विश्वास-प्रस्तुतिः ...{Loading}...

अघद्विष्टा देवजूता
वीरुच् छपथयावनी ।
उद्ना मलम् इवावानैक्
सर्वान् मच् छपथाँ अधि ॥

१३ यद् एनं परिषीदन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् एनं परिषीदन्ति
समादधति चक्षसे ।
संप्रेद्धो अग्निर् जिह्वाभिर्
उद् एति हृदयाद् अधि ॥

१४ अग्नेः सान्तपनस्याहम् आयुषे

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नेः सान्तपनस्याहम्
आयुषे पदम् आ रभे ।
अद्धातिर् यस्य पश्यति
धूमम् उद्यन्तम् आस्यतः ॥

१५ यो अस्य समिधम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्य समिधं वेद
क्षत्रियेण समाहिताम् ।
नाभिह्वारे पदं
नि दधाति स मृत्यवे ॥

१६ नैनं घ्नन्ति पर्यायिणो

विश्वास-प्रस्तुतिः ...{Loading}...

नैनं घ्नन्ति पर्यायिणो
न सन्नाँ अव गच्छति ।
अग्नेर् यः क्षत्रियो विद्वान्
नाम गृह्णात्य् आयुषे ॥