०१४

सर्वाष् टीकाः ...{Loading}...

०१ यथायं वाहो अश्विना

विश्वास-प्रस्तुतिः ...{Loading}...

यथायं वाहो अश्विना
समैति सं च वर्तते ।
एवा माम् अभि ते मनः
समैतु सं च वर्तताम् ॥

०२ अहं खिदामि ते

विश्वास-प्रस्तुतिः ...{Loading}...

अहं खिदामि ते मनो
राजाश्वः पृष्ट्याम् इव ।
रेष्मच्छिन्नं यथा तृणं
मयि ते वेष्टतां मनः ॥

०३ आञ्जनस्य मधुघस्य कुष्ठस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आञ्जनस्य मधुघस्य
कुष्ठस्य नलदस्य च ।
तुरो भगस्य हस्ताभ्याम्
अनुरोधनम् आ भरे ॥

०४ अयम् आ यात्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अयम् आ यात्य् अर्यमा
पुरस्ताद् विषितस्तुकः । (Bhatt. viṣatastukaḥ)
स इच्छाद् अग्रुवै पतिम्
अथो जायाम् अजानये ॥

०५ अश्रमद् इयम् अर्यमन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्रमद् इयम् अर्यमन्न्
अन्यासां समनं यती ।
अङ्गो न्व् अस्या अर्यमन्न्
अन्या समनम् आयति ॥ (Bhatt. anyāḥ)

०६ धाता दाधार पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

धाता दाधार पृथिवीं
धाता द्याम् उत सूर्यम् ।
धातास्या अग्रुवै पतिं
दधातु प्रतिकाम्यम् ॥

०७ मह्यम् आपो मधुमद्

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यम् आपो मधुमद् एरयन्त
मह्यं सूर्यो अभरज् ज्योतिषा कम् ।
मह्यं देवा उत विश्वे तपोजा
मह्यं देवः सविता व्यचो धात् ॥

०८ अहं दाधार पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं दाधार पृथिवीम् उत द्याम्
अहं सिन्धून् अजनं सप्त साकम् ।
अहं सत्यम् अनृतं यद् वदाम्य्
अहं वाचं परि सर्वाम् इषिं च ॥

०९ अहं विव्यज्मि पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं विव्यज्मि पृथिवीम् उत द्याम्
अहम् ऋतून् असृजे सप्त साकम् ।
अहं वाचं परि सर्वां बभूव
यो अग्नीषोमाव् अजुषे सखायौ ॥

१० अनडुद्भ्यो नः प्रथमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनडुद्भ्यो नः प्रथमं
धेनुभ्यस् त्वम् अरुन्धति ।
अधेनवे वयसे
शर्म यच्छ चतुष्पदे ॥

११ शर्म यच्छात्य् ओषधिः

विश्वास-प्रस्तुतिः ...{Loading}...

शर्म यच्छात्य् ओषधिः
सह देवैर् अरुन्धती ।
करत् पयस्वन्तं गोष्ठम्
अयक्ष्माꣳ उत पूरुषान् ॥ (Bhatt. pūruṣāṃ (⟨ ṣān))

१२ विश्वरूपां सुभगाम् अच्छा

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वरूपां सुभगाम्
अच्छा वदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं
दूरं नयतु गोभ्यः ॥

१३ यमो मृत्युर् अघमारो

विश्वास-प्रस्तुतिः ...{Loading}...

यमो मृत्युर् अघमारो निरृथो
भवः शर्वो अस्ता नीलशिखण्डी । (Bhatt. ‘stā śikhaṇḍī)
देवजनाः सेनाम् उत्तस्थिवांसस्
ते अस्माकं परि वृञ्जन्तु वीरान् ॥

१४ मनसा होमैर् हरसा

विश्वास-प्रस्तुतिः ...{Loading}...

मनसा होमैर् हरसा घृतेन
शर्वायास्त्र उत राज्ञे भवाय ।
नमस्येभ्यो नम एभ्यः कृणोम्य्
अन्यत्रास्मद् अघविषा नयन्तु ॥

१५ त्रायध्वं नो अघविषाभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

त्रायध्वं नो अघविषाभ्यो वधाद्
अग्नीषोमा मरुतः पूतदक्षाः ।
विश्वे देवा मरुतो वैश्वदेवा
वातापर्जन्ययोः सुमतौ स्याम ॥