सर्वाष् टीकाः ...{Loading}...
०१ अभि त्वेन्द्रो वरिमतः
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वेन्द्रो वरिमतः
पुरा त्वांहूरणेभ्यः ।
ह्वयाम्य् उग्रं चेत्तरं
पुरुणामानम् एकजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वेन्द्रो वरिमतः
पुरा त्वांहूरणेभ्यः ।
ह्वयाम्य् उग्रं चेत्तरं
पुरुणामानम् एकजम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो अद्य सेन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यो अद्य सेन्यो वधो
जिघांसन् न उदीरते ।
इन्द्रस्य तत्र बाहू
समन्तं परि दध्महे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अद्य सेन्यो वधो
जिघांसन् न उदीरते ।
इन्द्रस्य तत्र बाहू
समन्तं परि दध्महे ॥
सर्वाष् टीकाः ...{Loading}...
०३ परि दध्म इन्द्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
परि दध्म इन्द्रस्य बाहू
समन्तं त्रातुस् त्रायतां नः ।
देव सवितः सोम राजन्
सुमनसं मा कृणुतं स्वस्तये ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि दध्म इन्द्रस्य बाहू
समन्तं त्रातुस् त्रायतां नः ।
देव सवितः सोम राजन्
सुमनसं मा कृणुतं स्वस्तये ॥
सर्वाष् टीकाः ...{Loading}...
०४ देवा अदुः सूर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
देवा अदुः सूर्यो अदाद्
द्यौर् अदात् पृथिव्य् अदात् ।
सर्वाः सरस्वतीर् अदुः
सचित्ता विषदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा अदुः सूर्यो अदाद्
द्यौर् अदात् पृथिव्य् अदात् ।
सर्वाः सरस्वतीर् अदुः
सचित्ता विषदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् वो देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वो देवा उपजीका
आसिञ्चन् धन्वन्य् उदकम् ।
तेन देवप्रसूता
इदं दूषयता विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वो देवा उपजीका
आसिञ्चन् धन्वन्य् उदकम् ।
तेन देवप्रसूता
इदं दूषयता विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ असुराणाम् असि दुहिता
विश्वास-प्रस्तुतिः ...{Loading}...
असुराणाम् असि दुहिता
देवानाम् असि स्वसा ।
दिवस् पृथिव्या जज्ञिषे
सा चकर्थारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
असुराणाम् असि दुहिता
देवानाम् असि स्वसा ।
दिवस् पृथिव्या जज्ञिषे
सा चकर्थारसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अस्थिस्रंसं परुस्रंसम् आस्थितम्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्थिस्रंसं परुस्रंसम्
आस्थितं हृदयामयम् ।
बलासं सर्वं निष् कृध्य्
अङ्गेष्ठा यश् च पर्वसु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्थिस्रंसं परुस्रंसम्
आस्थितं हृदयामयम् ।
बलासं सर्वं निष् कृध्य्
अङ्गेष्ठा यश् च पर्वसु ॥
सर्वाष् टीकाः ...{Loading}...
०८ निर् बलासं बलासिनः
विश्वास-प्रस्तुतिः ...{Loading}...
निर् बलासं बलासिनः
क्षिणोमि पुष्करं यथा ।
छिनद्म्य् अस्य बन्धनं
मूलम् उर्वार्वो यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् बलासं बलासिनः
क्षिणोमि पुष्करं यथा ।
छिनद्म्य् अस्य बन्धनं
मूलम् उर्वार्वो यथा ॥
सर्वाष् टीकाः ...{Loading}...
०९ निर् बलासेतः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
निर् बलासेतः प्र पत
सुपर्णो वसतेर् इव ।
अधेट इव हायनो
ऽप द्राह्य् अवीरहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् बलासेतः प्र पत
सुपर्णो वसतेर् इव ।
अधेट इव हायनो
ऽप द्राह्य् अवीरहा ॥
सर्वाष् टीकाः ...{Loading}...
१० आ वृषायस्व श्वसिहि
विश्वास-प्रस्तुतिः ...{Loading}...
आ वृषायस्व श्वसिहि
वर्धस्व प्रथयस्व च ।
यथाङ्गं वर्धतां ते शेपस्
तेन योषितम् उज् जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वृषायस्व श्वसिहि
वर्धस्व प्रथयस्व च ।
यथाङ्गं वर्धतां ते शेपस्
तेन योषितम् उज् जहि ॥
सर्वाष् टीकाः ...{Loading}...
११ येना कृशं मेदयन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
येना कृशं मेदयन्ति
येन हिन्वन्त्य् आतुरम् ।
तेनास्य ब्रह्मणस्पते
धनुर् इवा तानया पसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येना कृशं मेदयन्ति
येन हिन्वन्त्य् आतुरम् ।
तेनास्य ब्रह्मणस्पते
धनुर् इवा तानया पसः ॥
सर्वाष् टीकाः ...{Loading}...
१२ आहं तनोमि ते
विश्वास-प्रस्तुतिः ...{Loading}...
आहं तनोमि ते पसो
अधि ज्याम् इव धन्वनि ।
क्रमस्व रिश्य इव रोहितम्
अनवग्लायता त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आहं तनोमि ते पसो
अधि ज्याम् इव धन्वनि ।
क्रमस्व रिश्य इव रोहितम्
अनवग्लायता त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ देवाः कपोत इषितो
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः कपोत इषितो यद् इच्छन्
दूतो निरृत्या इदम् आजगाम । +++(Bhatt. stuto)+++
तस्मा अर्चाम कृणवाम निष्कृतिं
शं नो अस्तु द्विपदे चतुष्पदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवाः कपोत इषितो यद् इच्छन्
दूतो निरृत्या इदम् आजगाम । +++(Bhatt. stuto)+++
तस्मा अर्चाम कृणवाम निष्कृतिं
शं नो अस्तु द्विपदे चतुष्पदे ॥
सर्वाष् टीकाः ...{Loading}...
१४ शिवः कपोत इषितो
विश्वास-प्रस्तुतिः ...{Loading}...
शिवः कपोत इषितो नो अस्त्व्
अनागा देवाः शकुनो गृहे नः ।
अग्निर् हि विप्रो जुषतां हविर् नः
परि हेतिः पक्षिणी नो वृणक्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवः कपोत इषितो नो अस्त्व्
अनागा देवाः शकुनो गृहे नः ।
अग्निर् हि विप्रो जुषतां हविर् नः
परि हेतिः पक्षिणी नो वृणक्तु ॥
सर्वाष् टीकाः ...{Loading}...
१५ हेतिः पक्षिणी न
विश्वास-प्रस्तुतिः ...{Loading}...
हेतिः पक्षिणी न दभात्य् अस्मान्
आष्ट्री पदं कृणुते अग्निधाने ।
शं नो गोभ्य उत पुरुषेभ्यो
मा नो देवा इह हिंसीत् कपोतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हेतिः पक्षिणी न दभात्य् अस्मान्
आष्ट्री पदं कृणुते अग्निधाने ।
शं नो गोभ्य उत पुरुषेभ्यो
मा नो देवा इह हिंसीत् कपोतः ॥
सर्वाष् टीकाः ...{Loading}...
१६ इषं मदन्तः परि
विश्वास-प्रस्तुतिः ...{Loading}...
इषं मदन्तः परि गां नयामः
संयोपयन्तो दुरिता पदानि ।
ऋचा कपोतं नुदत प्रणोदं
हित्वा न ऊर्जं प्र पतात् पतिष्ठः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इषं मदन्तः परि गां नयामः
संयोपयन्तो दुरिता पदानि ।
ऋचा कपोतं नुदत प्रणोदं
हित्वा न ऊर्जं प्र पतात् पतिष्ठः ॥
सर्वाष् टीकाः ...{Loading}...
१७ नुदे त्वा प्र
विश्वास-प्रस्तुतिः ...{Loading}...
नुदे त्वा प्र णुदे त्वा
कपोत रक्षसा सह ।
यतो न पुनर् आयसि
तत्र त्वा गमयामसि ॥ +++(Bhatt. gamamayāmasi (misprint))+++
मूलम् ...{Loading}...
मूलम् (GR)
नुदे त्वा प्र णुदे त्वा
कपोत रक्षसा सह ।
यतो न पुनर् आयसि
तत्र त्वा गमयामसि ॥ +++(Bhatt. gamamayāmasi (misprint))+++