०१२

सर्वाष् टीकाः ...{Loading}...

०१ शमीम् अश्वत्थ आरूढस्

विश्वास-प्रस्तुतिः ...{Loading}...

शमीम् अश्वत्थ आरूढस्
तत्र पुंसवनं कृतम् ।
तद् एव तस्य भेषजं
यत् स्त्रीष्व् आ हरन्ति तत् ॥ (Bhatt. ya(ḥ) … tam)

०२ पुंसि वै रेतो

विश्वास-प्रस्तुतिः ...{Loading}...

पुंसि वै रेतो भवति
तत् स्त्रियाम् अनु षिच्यते ।
तद् वै पुत्रस्य वेदनं
तत् प्रजापतिर् अब्रवीत् ॥

०३ प्रजापतिर् अन्व् अमंस्त

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिर् अन्व् अमंस्त
सिनीवाल्य् अचीक्ल्̥पत् ।
स्त्रैषूयम् अन्यत्र दधत्
पुमांसम् उ दधद् इह ॥ (Bhatt. uta dadhad)

०४ या ओषधयः सोमराज्ञीर्

विश्वास-प्रस्तुतिः ...{Loading}...

या ओषधयः सोमराज्ञीर् इत्य् एका (PS 11.7.5 is repeated)

०५ मुञ्चन्तु मा शपथ्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

मुञ्चन्तु मा शपथ्याद्
अथो वरुण्याद् उत ।
अथो यमस्य पड्बीशाद्
विश्वस्माद् देवदुष्कृतात् ॥

०६ यच् चक्षुषा यन्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् चक्षुषा यन् मनसा
यच् च वाचोपारिम
यज् जाग्रतो यत् स्वपन्तः ।
सोमो मा तस्माद् एनसः
स्वधया पुनातु विद्वान् ॥

०७ अभिभूर् यज्ञो अभिभूर्

विश्वास-प्रस्तुतिः ...{Loading}...

अभिभूर् यज्ञो अभिभूर् अग्निर् अस्त्व्
अभिभूः सोमो अभिभूर् इन्द्रो अस्तु ।
अभ्य् अयं विश्वाः पृतना यथासद्
एवा विधेमाग्निहोत्रा इदं हविः ॥

०८ स्वधास्तु मित्रावरुणा प्रजावत्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वधास्तु मित्रावरुणा प्रजावत्
क्षत्रं मध्वेह पिन्वतम् ।
बाधेथां द्वेषो निरृतिं पराचैर्
अस्मै क्षत्रं वर्च आ धत्तम् ओजः ॥

०९ इमं वीरम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं वीरम् इत्य् एका ॥ (PS 7.4.6 is repeated)

१० अग्नेर् इव प्रसितिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नेर् इव प्रसितिर् अस्य शुष्मिण
उतेव मत्तो विलपन्न् अपायति ।
तस्मै ते अरुणाय बभ्रवे
तपुर्मघाय नमो ऽस्तु तक्मने ॥

११ नमो यमाय नमो

विश्वास-प्रस्तुतिः ...{Loading}...

नमो यमाय नमो ऽस्तु मृत्यवे
नमो राज्ञे वरुणाय त्विषीमते ।
नमः क्षेत्रस्य पतये नमो दिवे
नमः पृथिव्यै नम ओषधीभ्यः ॥

१२ अयं यो जनान्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं यो जनान् हरितान् कृणोत्य्
उच्छोचयन्न् अग्निनेवाभिदुन्वन् ।
अधा हि तक्मन्न् अरसो हि भूया
अथा न्यङ् अधरङ् वा परेहि ॥ (Bhatt. athānvaṅ)

१३ इन्द्रो जयाति न

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो जयाति न परा जयाता
अधिराजो राजसु राजयातै ।
चर्कृत्य ईड्यः शंस्यश् च- (Bhatt. saṃsya(⟨ śaṃsya)ś)
-उपसद्यो नमस्यो भवेह ॥

१४ त्वम् इन्द्राधिराजः श्रवस्युस्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् इन्द्राधिराजः श्रवस्युस्
त्वं भवाभिभूतिर् जनानाम् ।
त्वं दैवीर् विश इमा वि राज-
-आयुष्मत् क्षत्रम् अजरं ते अस्तु ॥

१५ प्राच्यां दिशि त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राच्यां दिशि त्वम् इन्द्राधिराजा- (Bhatt. indrādhi rājodīcyāṃ)
-ओदीच्यां दिशि वृत्रहन् दस्युहासि ।
यत्र यन्ति श्रोत्यास् तज् जितं ते
दक्षिणतो वृषभो ऽसि हव्यः ॥