०११

सर्वाष् टीकाः ...{Loading}...

०१ अश्वत्थो देवसदन इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वत्थो देवसदन इत्य् अजायतान्ते ॥ +++(PS 7.10.6 is repeated)+++

०२ देवेभ्यो अधि जातो

विश्वास-प्रस्तुतिः ...{Loading}...

देवेभ्यो अधि जातो ऽसि
सोमस्य सखा हितः ।
स प्राणायापानाय
चक्षुसे ऽस्य मृड ॥

०३ अयस्मये द्रुपदे बेधिष

विश्वास-प्रस्तुतिः ...{Loading}...

अयस्मये द्रुपदे बेधिष इद् +++(Bhatt. bedhiṣe yad)+++
अभिहितो मृत्युभिर् ये सहस्रम् ।
यमो मह्यं पुनर् इत् त्वां ददातु +++(Bhatt. dadāti)+++
तस्मै देवाय हविषा विधेम ॥

०४ यत् ते देवी

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते देवी निरृतिर् आबबन्ध
दाम ग्रीवास्व् अविचृत्यम् ।
तत् ते वि ष्याम्य् आयुषे बलाय-
-अनमीवं पितुम् अद्धि प्रसूतः ॥

०५ नमो ऽस्तु ते

विश्वास-प्रस्तुतिः ...{Loading}...

नमो ऽस्तु ते निरृते विश्ववारे +++(Bhatt. namastu)+++
अयस्मयं वि चृता बन्धम् एतम् । +++(K ayasmayān pra mumugdhi pāśān)+++
यमेन त्वं पितृभिः संविदान-
-उत्तमे नाके अधि रोहयेमम् ॥

०६ अन्तर्दावाय जुहुता स्व्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर्दावाय जुहुता स्व् एतद्
यातुधानक्षयणं घृतेन ।
आराद् रक्षांसि प्रति दहाग्ने
मास्माकं तन्वम् उप तीतपन्त ॥

०७ शर्वो वो ग्रीवा

विश्वास-प्रस्तुतिः ...{Loading}...

शर्वो वो ग्रीवा अशरीत् पिशाचाः
पृष्टीर् वो ऽपि शृणात्व् अग्निः ।
वीरुद् वो विश्वधावीर्या
मृत्युना सम् अजीगमत् ॥

०८ अपिशाचं नो अधराद्

विश्वास-प्रस्तुतिः ...{Loading}...

अपिशाचं नो अधराद्
अपिशाचं न उत्तरात् ।
इन्द्रापिशाचं नः पश्चाद्
अपिशाचं पुरस् कृधि ॥

०९ इन्द्रश् चकार प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रश् चकार प्रथमो
नैर्हस्तम् असुरेभ्यः ।
वृश्चामः शत्रूणां बाहू
अनेन हविषा वयम् ॥

१० निर्हस्तः शत्रुर् अभिदासन्

विश्वास-प्रस्तुतिः ...{Loading}...

निर्हस्तः शत्रुर् अभिदासन् नो अस्तु
ये सेनाभिर् युधम् आयन्त्य् अस्मान् ।
सम् अर्पयेन्द्र महता वधेन
द्रात्व् एषाम् अघहारो विविद्धः ॥

११ अव मन्युर् अवायता

विश्वास-प्रस्तुतिः ...{Loading}...

अव मन्युर् अवायता- +++(Bhatt. avāyatā ava)+++
-अव बाहू मनोयुजा ।
पराशर त्वं तेषां पराञ्चं शुष्मम्
अर्दयार्वाचीं रयिम् आ कृधि ॥

१२ आतन्वाना आयच्छन्तो ऽस्यन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

आतन्वाना आयच्छन्तो
ऽस्यन्तो ये च धावथ ।
निर्हस्ताः शत्रव स्थन- +++(Bhatt. stendro)+++
-इन्द्रो वो ऽद्य पराशरीत् ॥

१३ निर्हस्ताः सन्तु शत्रवो

विश्वास-प्रस्तुतिः ...{Loading}...

निर्हस्ताः सन्तु शत्रवो
ऽङ्गैषां म्लापयामसि ।
यथैषाम् इन्द्र वेदांसि
यूथेषु वि भजामहै ॥

१४ निर्हस्तेभ्यो नैर्हस्तं यम्

विश्वास-प्रस्तुतिः ...{Loading}...

निर्हस्तेभ्यो नैर्हस्तं यं
देवाः शरुम् अस्यथ ।
जयन्तु सत्वानो मम
स्थिरेणेन्द्रेण मेदिना ॥