सर्वाष् टीकाः ...{Loading}...
०१ मनसे चेतसे धिय
विश्वास-प्रस्तुतिः ...{Loading}...
मनसे चेतसे धिय
आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे
विधेम हविषा वयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मनसे चेतसे धिय
आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे
विधेम हविषा वयम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्राणायापानाय व्यानाय भूरिरेतसे
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणायापानाय
व्यानाय भूरिरेतसे ।
सरस्वत्या उरुव्यचे
विधेम हविषा वयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणायापानाय
व्यानाय भूरिरेतसे ।
सरस्वत्या उरुव्यचे
विधेम हविषा वयम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ मा नो हासिषुर्
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो हासिषुर् ऋषयो दैव्यासस्
तनूपावानः शुचयस् तपोजाः ।
अमर्त्या मर्त्याꣳ अभि नः सचध्वम्
आयुर् नः प्रतरं जीवसे धुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नो हासिषुर् ऋषयो दैव्यासस्
तनूपावानः शुचयस् तपोजाः ।
अमर्त्या मर्त्याꣳ अभि नः सचध्वम्
आयुर् नः प्रतरं जीवसे धुः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इदम् इद् वा
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् इद् वा उ भेषजम्
इदं रुद्रस्य भेषजम् ।
येनेषुम् एकतेजनां
शतशल्याम् अपब्रुवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् इद् वा उ भेषजम्
इदं रुद्रस्य भेषजम् ।
येनेषुम् एकतेजनां
शतशल्याम् अपब्रुवन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ जालाषेनाभि षिञ्चत जालाषेनोप
विश्वास-प्रस्तुतिः ...{Loading}...
जालाषेनाभि षिञ्चत
जालाषेनोप सिञ्चत ।
जालाषं भद्रं भेषजं
तस्य नो धत्त जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
जालाषेनाभि षिञ्चत
जालाषेनोप सिञ्चत ।
जालाषं भद्रं भेषजं
तस्य नो धत्त जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
०६ शं च नो
विश्वास-प्रस्तुतिः ...{Loading}...
शं च नो मयश् च नो
मा च नः किं चनाममत् ।
क्षमा रपो विश्वं नो अस्तु भेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं च नो मयश् च नो
मा च नः किं चनाममत् ।
क्षमा रपो विश्वं नो अस्तु भेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यशसं मेन्द्रो मघवान्
विश्वास-प्रस्तुतिः ...{Loading}...
यशसं मेन्द्रो मघवान् कृणोतु
यशसं सोमो वरुणो वायुर् अग्निः ।
यशसं मा देवः सविता कृणोतु
प्रियो दातुर् दक्षिणायाः स्याम् अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यशसं मेन्द्रो मघवान् कृणोतु
यशसं सोमो वरुणो वायुर् अग्निः ।
यशसं मा देवः सविता कृणोतु
प्रियो दातुर् दक्षिणायाः स्याम् अहम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथेन्द्रो द्यावापृथिव्योर् यशस्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
यथेन्द्रो द्यावापृथिव्योर् यशस्वान्
यथाप ओषधीषु ।
यथा विश्वेषु देवेष्व्
एवा देवेषु यशसः स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथेन्द्रो द्यावापृथिव्योर् यशस्वान्
यथाप ओषधीषु ।
यथा विश्वेषु देवेष्व्
एवा देवेषु यशसः स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०९ अच्छ वयम् इन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छ वयम् इन्द्रं यशसं यशोभिर्
यशस्विनो हविषैना विधेम ।
स नो दधद् राष्ट्रम् इन्द्रजूतं
तस्य त्रात्रे अधिवाके स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
अच्छ वयम् इन्द्रं यशसं यशोभिर्
यशस्विनो हविषैना विधेम ।
स नो दधद् राष्ट्रम् इन्द्रजूतं
तस्य त्रात्रे अधिवाके स्याम ॥
सर्वाष् टीकाः ...{Loading}...
१० एह यातु वरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
एह यातु वरुणः सोमो अग्निर्
बृहस्पतिर् वसुभिर् एह यातु ।
अस्य श्रियम् अभिसंयात सर्व
उग्रस्य चेत्तुः संमनसः सजाताः ॥ (Bhatt. cetasaḥ)
मूलम् ...{Loading}...
मूलम् (GR)
एह यातु वरुणः सोमो अग्निर्
बृहस्पतिर् वसुभिर् एह यातु ।
अस्य श्रियम् अभिसंयात सर्व
उग्रस्य चेत्तुः संमनसः सजाताः ॥ (Bhatt. cetasaḥ)
सर्वाष् टीकाः ...{Loading}...
११ एह यात माप
विश्वास-प्रस्तुतिः ...{Loading}...
एह यात माप याताध्य् अस्मत्
पूषा वः परस्ताद् अपथं कृणोतु ।
वास्तोष्पतिर् अनु वो ऽयम् अह्वन् (Bhatt. voyam)
मयि सजाता रमतिर् वो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
एह यात माप याताध्य् अस्मत्
पूषा वः परस्ताद् अपथं कृणोतु ।
वास्तोष्पतिर् अनु वो ऽयम् अह्वन् (Bhatt. voyam)
मयि सजाता रमतिर् वो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
१२ यो वः शुष्मो
विश्वास-प्रस्तुतिः ...{Loading}...
यो वः शुष्मो हृदयेष्व् अन्तर्
या आकूतिर् मनसि प्रविष्टा । (Bhatt. yākūtir)
ताञ् छ्रेवयामि हविषा घृतेन (Bhatt. tāṃ)
मयि सजाता रमतिर् वो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वः शुष्मो हृदयेष्व् अन्तर्
या आकूतिर् मनसि प्रविष्टा । (Bhatt. yākūtir)
ताञ् छ्रेवयामि हविषा घृतेन (Bhatt. tāṃ)
मयि सजाता रमतिर् वो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
१३ मम चित्तं प्रयवसन्युतेत्वे
विश्वास-प्रस्तुतिः ...{Loading}...
मम चित्तं प्रयवसन्युतेत्वे- (Bhatt. prayavamanvitehe)
-इन्द्राग्न्योर् इव हवम् एत सर्वे ।
बृहस्पतिर् वो नि युनक्तु मह्यं
मम वाचम् एकचित्ताः सचध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मम चित्तं प्रयवसन्युतेत्वे- (Bhatt. prayavamanvitehe)
-इन्द्राग्न्योर् इव हवम् एत सर्वे ।
बृहस्पतिर् वो नि युनक्तु मह्यं
मम वाचम् एकचित्ताः सचध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ अहं गृह्णामि मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
अहं गृह्णामि मनसा मनांसि
मम चित्तम् उप चित्तेभिर् एत ।
मम वशे हृदयं वः कृणोमि
मम यातम् अनुवर्त्मान एत ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं गृह्णामि मनसा मनांसि
मम चित्तम् उप चित्तेभिर् एत ।
मम वशे हृदयं वः कृणोमि
मम यातम् अनुवर्त्मान एत ॥
सर्वाष् टीकाः ...{Loading}...
१५ मां वश् चक्षुर्
विश्वास-प्रस्तुतिः ...{Loading}...
मां वश् चक्षुर् गच्छतु मां प्राणो
धाता पदम् अनु वर्त्म वः कृणोतु ।
ये वो महान्त उत ये कुमारा
मम यातम् अनु यातेभिर् एत ॥ (Bhatt. anuyātebhir)
मूलम् ...{Loading}...
मूलम् (GR)
मां वश् चक्षुर् गच्छतु मां प्राणो
धाता पदम् अनु वर्त्म वः कृणोतु ।
ये वो महान्त उत ये कुमारा
मम यातम् अनु यातेभिर् एत ॥ (Bhatt. anuyātebhir)