सर्वाष् टीकाः ...{Loading}...
०१ द्यौश् च मा
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौश् च मा पृथिवी च प्रचेतसौ
शुक्रो बृहन् दक्षिणा मा पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निर्
वायुर् मा यातु सविता भगश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौश् च मा पृथिवी च प्रचेतसौ
शुक्रो बृहन् दक्षिणा मा पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निर्
वायुर् मा यातु सविता भगश् च ॥
सर्वाष् टीकाः ...{Loading}...
०२ पुनर् मनः पुनर्
विश्वास-प्रस्तुतिः ...{Loading}...
पुनर् मनः पुनर् आयुर् न आगन्
पुनश् चक्षुः पुनर् आकूतिर् आगन् ।
वैश्वानरो नो अदब्धस् तनूपा
अन्तस् तिष्ठाति दुरिताद् अवद्यात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनर् मनः पुनर् आयुर् न आगन्
पुनश् चक्षुः पुनर् आकूतिर् आगन् ।
वैश्वानरो नो अदब्धस् तनूपा
अन्तस् तिष्ठाति दुरिताद् अवद्यात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सं वर्चसा पयसा
विश्वास-प्रस्तुतिः ...{Loading}...
सं वर्चसा पयसा सं तनूभिर्
अगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो वरिवः कृणोत्व्
अनूनस् ताष्टु तन्वो विरिष्टम् ॥ +++(Bhatt. anu nas)+++
मूलम् ...{Loading}...
मूलम् (GR)
सं वर्चसा पयसा सं तनूभिर्
अगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो वरिवः कृणोत्व्
अनूनस् ताष्टु तन्वो विरिष्टम् ॥ +++(Bhatt. anu nas)+++
सर्वाष् टीकाः ...{Loading}...
०४ इदं तद् युज
विश्वास-प्रस्तुतिः ...{Loading}...
इदं तद् युज उत्तरं
येनेन्द्रं शुम्भाम्य् अष्टये ।
अस्य क्षत्रं श्रियं महीं
वृष्टिर् इव वर्धया तृणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं तद् युज उत्तरं
येनेन्द्रं शुम्भाम्य् अष्टये ।
अस्य क्षत्रं श्रियं महीं
वृष्टिर् इव वर्धया तृणम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अस्य क्षत्रम् अग्नीषोमाव्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्य क्षत्रम् अग्नीषोमाव्
अस्य वर्धयतं रयिम् ।
अथो राष्ट्रस्याभीवर्गे
कृणुतं युज उत्तरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्य क्षत्रम् अग्नीषोमाव्
अस्य वर्धयतं रयिम् ।
अथो राष्ट्रस्याभीवर्गे
कृणुतं युज उत्तरम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ सबन्धुश् चासबन्धुश् च
विश्वास-प्रस्तुतिः ...{Loading}...
सबन्धुश् चासबन्धुश् च
यो जातो यश् च निष्टियः । +++(Bhatt. niṣṭyaḥ)+++
यजमानाय सुन्वते
सर्वं तं रीरधासि नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सबन्धुश् चासबन्धुश् च
यो जातो यश् च निष्टियः । +++(Bhatt. niṣṭyaḥ)+++
यजमानाय सुन्वते
सर्वं तं रीरधासि नः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यशो बृहद् वर्धताम्
विश्वास-प्रस्तुतिः ...{Loading}...
यशो बृहद् वर्धताम् इन्द्रजूतं
सहस्रभृष्टि सुकृतं सहस्वत् ।
प्रसर्स्राणम् अनु दीर्घाय जीवसे
हविष्मन्तं वर्धय सर्वतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
यशो बृहद् वर्धताम् इन्द्रजूतं
सहस्रभृष्टि सुकृतं सहस्वत् ।
प्रसर्स्राणम् अनु दीर्घाय जीवसे
हविष्मन्तं वर्धय सर्वतातये ॥
सर्वाष् टीकाः ...{Loading}...
०८ यशा इन्द्रो यशा
विश्वास-प्रस्तुतिः ...{Loading}...
यशा इन्द्रो यशा अग्निर्
यशाः सोमो अजायत ।
यशा विश्वस्य भूतस्य-
-अहम् अस्मि यशस्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यशा इन्द्रो यशा अग्निर्
यशाः सोमो अजायत ।
यशा विश्वस्य भूतस्य-
-अहम् अस्मि यशस्तमः ॥
सर्वाष् टीकाः ...{Loading}...
०९ वयं ते अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
वयं ते अग्ने यशसो यशोभिर्
यशस्विनो हविषैना विधेम ।
स नो धेहि राष्ट्रम् इन्द्रजूतं
तव त्रात्रे अधिवाके स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
वयं ते अग्ने यशसो यशोभिर्
यशस्विनो हविषैना विधेम ।
स नो धेहि राष्ट्रम् इन्द्रजूतं
तव त्रात्रे अधिवाके स्याम ॥
सर्वाष् टीकाः ...{Loading}...
१० अव ज्याम् इव
विश्वास-प्रस्तुतिः ...{Loading}...
अव ज्याम् इव धन्वनो
मन्युं तनोमि ते हृदः ।
अधा संमनसौ भूत्वा
सखिकेव सचावहै ॥
मूलम् ...{Loading}...
मूलम् (GR)
अव ज्याम् इव धन्वनो
मन्युं तनोमि ते हृदः ।
अधा संमनसौ भूत्वा
सखिकेव सचावहै ॥
सर्वाष् टीकाः ...{Loading}...
११ वि ते मन्युम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि ते मन्युं नयामसि
सखिकेव सचावहै ।
अधस् ते अश्मना मन्युं
गुरुणाभि नि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि ते मन्युं नयामसि
सखिकेव सचावहै ।
अधस् ते अश्मना मन्युं
गुरुणाभि नि दध्मसि ॥
सर्वाष् टीकाः ...{Loading}...
१२ अभि तिष्ठामि ते
विश्वास-प्रस्तुतिः ...{Loading}...
अभि तिष्ठामि ते मन्युं
पार्ष्णिभ्यां प्रपदाभ्याम् ।
परा ते दण्ड्यं वधं
परा मन्युं सुवामि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि तिष्ठामि ते मन्युं
पार्ष्णिभ्यां प्रपदाभ्याम् ।
परा ते दण्ड्यं वधं
परा मन्युं सुवामि ते ॥
सर्वाष् टीकाः ...{Loading}...
१३ हिरण्ययः पन्था आसीद्
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्ययः पन्था आसीद्
अरित्राणि हिरण्यया ।
नावो हिरण्ययीर् आसन् +++(Bhatt. hiraṇyyīr*)+++
याभिः कुष्ठं निरावहम् ॥ +++(Bhatt. nirāvahan*)+++
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्ययः पन्था आसीद्
अरित्राणि हिरण्यया ।
नावो हिरण्ययीर् आसन् +++(Bhatt. hiraṇyyīr*)+++
याभिः कुष्ठं निरावहम् ॥ +++(Bhatt. nirāvahan*)+++
सर्वाष् टीकाः ...{Loading}...
१४ सुपर्णसुवने गिरौ जातम्
विश्वास-प्रस्तुतिः ...{Loading}...
सुपर्णसुवने गिरौ
जातं हिमवतस् परि ।
धनैर् अभि श्रुतं यन्ति
कुष्ठेहि तक्मनाशनः ॥ +++(Bhatt. kuṣṭho hi)+++
मूलम् ...{Loading}...
मूलम् (GR)
सुपर्णसुवने गिरौ
जातं हिमवतस् परि ।
धनैर् अभि श्रुतं यन्ति
कुष्ठेहि तक्मनाशनः ॥ +++(Bhatt. kuṣṭho hi)+++
सर्वाष् टीकाः ...{Loading}...
१५ यो गिरिषु जायसे
विश्वास-प्रस्तुतिः ...{Loading}...
यो गिरिषु जायसे
वीरुधां बलवत्तमः ।
कुष्ठेहि तक्मनाशन
तक्मानं नाशयन्न् इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो गिरिषु जायसे
वीरुधां बलवत्तमः ।
कुष्ठेहि तक्मनाशन
तक्मानं नाशयन्न् इतः ॥