००७

सर्वाष् टीकाः ...{Loading}...

०१ संसम् इद् युवसे

विश्वास-प्रस्तुतिः ...{Loading}...

संसम् इद् युवसे वृषन्न्
अग्ने विश्वान्य् अर्य आ ।
इडस् पदे सम् इध्यसे
स नो वसून्य् आ भर ॥

०२ सं जानीध्वं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं जानीध्वं सं पृच्यध्वं
सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे
संजानाना उपासते ॥

०३ समानो मन्त्रः समितिः

विश्वास-प्रस्तुतिः ...{Loading}...

समानो मन्त्रः समितिः समानी
समानं चित्तं सह वो मनांसि ।
समानेन वो हविषा जुहोमि
यथा संमनसो ऽसथ ॥

०४ उत् सूर्यो दिव

विश्वास-प्रस्तुतिः ...{Loading}...

उत् सूर्यो दिव एति
पुरो विश्वानि यो ऽरुहत् । +++(Bhatt. joruvat)+++
आदित्यः पर्वताङ् अति +++(Bhatt. parvatāṃ)+++
विश्वदृष्टो अदृष्टहा ॥

०५ आयुर्विदं विपश्चितं श्रुताम्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुर्विदं विपश्चितं
श्रुतां कण्वस्य वीरुधम् ।
आहार्षं विश्वभेषजीम्
अस्यादृष्टान् नि शमय ॥

०६ नि गावो गोष्ठे

विश्वास-प्रस्तुतिः ...{Loading}...

नि गावो गोष्ठे असदन्
नि मृगासो अविक्षत ।
नि केतवो जनानां
न्य् अदृष्टा अलिप्सत ॥

०७ हिमवतः प्र स्रवथ

विश्वास-प्रस्तुतिः ...{Loading}...

हिमवतः प्र स्रवथ
ताः सिन्धुम् उप गच्छथ ।
आपो घ मह्यं तद् देवीर्
ददन् हृद्द्योतभेषजम् ॥ +++(Bhatt. dadaṃ)+++

०८ यद् अक्षीभ्याम् आदिद्योत

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अक्षीभ्याम् आदिद्योत
पार्ष्णिभ्यां हृदयेन च ।
आपस् तत् सर्वं निष् करन् +++(Bhatt. karaṃ)+++
त्वष्टा रिष्टम् इवानसः ॥

०९ सिन्धुराज्ञीः सिन्धुपत्नीः सर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धुराज्ञीः सिन्धुपत्नीः
सर्वा या नद्य स्थन ।
दत्ता नस् तस्य भेषजं
तेन वो भुनजामहै ॥

१० पुनन्तु मा देवजनाः

विश्वास-प्रस्तुतिः ...{Loading}...

पुनन्तु मा देवजनाः
पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूतानि
पवमानः पुनातु मा ॥

११ पुनातु मा पवमानः

विश्वास-प्रस्तुतिः ...{Loading}...

पुनातु मा पवमानः
क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्याय दृशे ॥

१२ उभाभ्यां देव सवितः

विश्वास-प्रस्तुतिः ...{Loading}...

उभाभ्यां देव सवितः
पवित्रेण सवेन च ।
अस्मान् पुनीहि चक्षसे ॥

१३ ईर्ष्याया ध्राजिं प्रथमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ईर्ष्याया ध्राजिं प्रथमाम्
अधमाम् उत्तमाम् उत ।
मन्युं हृदय्यं शोकं
तं ते निर् मन्त्रयामहे ॥

१४ एतद् यत् ते

विश्वास-प्रस्तुतिः ...{Loading}...

एतद् यत् ते हृदि श्रितं
मनस्कं पतयिष्णुकम् ।
ततस् त ईर्ष्यां मुञ्चामि
निर् ऊष्माणं दृतेर् इव ॥

१५ यथा भूमिर् मृतमना

विश्वास-प्रस्तुतिः ...{Loading}...

यथा भूमिर् मृतमना
मृतान् मृतमनस्तरा ।
यथोत मम्रुषो मन +++(Bhatt. yathottamaṃmṛto)+++
एवेर्ष्योर् मृतं मनः ॥