००५

सर्वाष् टीकाः ...{Loading}...

०१ नमो देववधेभ्यो नमो

विश्वास-प्रस्तुतिः ...{Loading}...

नमो देववधेभ्यो
नमो राजवधेभ्यः ।
अथो ये विश्यानां वधास्
तेभ्यो मृत्यो नमांसि ते ॥

०२ नमस् ते अधिवाकाय

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अधिवाकाय
परावाकाय ते नमः ।
सुमत्यै मृत्यो ते नमो
दुर्मत्यै त इदं नमः ॥

०३ नमस् ते यातुधानेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते यातुधानेभ्यो
नमस् ते भेषजेभ्यः ।
मूलेभ्यो मृत्यो ते नमो
ब्राह्मणेभ्य इदं नमः ॥

०४ नव च या

विश्वास-प्रस्तुतिः ...{Loading}...

नव च या नवतिश् च
संयन्ति मन्या अभि ।
इतस् ताः सर्वा नश्यन्तु
वाका अपचिताम् इव ॥

०५ सप्त च याः

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त च याः सप्ततिश् च
संयन्ति स्कन्ध्या अभि ।
(इतस् ताः सर्वा नश्यन्तु
वाका अपचिताम् इव) ॥

०६ पञ्च च याः

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्च च याः पञ्चाशच् च +++(Bhatt. ya yāḥ, misprint)+++
संयन्ति ग्रैव्या अभि ।
इतस् ताः सर्वा नश्यन्तु
वाका अपचिताम् इव ॥

०७ आवयो अनावयो रसस्

विश्वास-प्रस्तुतिः ...{Loading}...

आवयो अनावयो
रसस् त उग्र आवयो ।
आ ते करम्भम् अदीमहि +++(Bhatt. aśīmahi)+++
स हि न त्वम् असि यस्
त्वम् आत्मानम् आवयः ॥

०८ बभ्रुश् च बभ्रुकर्णश्

विश्वास-प्रस्तुतिः ...{Loading}...

बभ्रुश् च बभ्रुकर्णश् च
नीलाकलशाला ।
शवःपश्य ॥

०९ तौविलिके ऽवेलया अवायम्

विश्वास-प्रस्तुतिः ...{Loading}...

तौविलिके ऽवेलया- +++(Bhatt. tauvilikevelayā)+++
-अवायम् ऐलव ऐलयीत् ।
इह स्वाम् आहुतिं
जुषाणो मनसा स्वाहा ॥

१० स्वाहा मनसा यद्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा मनसा यद् इदं कृणोमि
यस्यास् त आसञ् जुहोमि घोरे ।
एषां बद्धानाम् अवसर्जनाय कम् ॥

११ भूमिर् इति त्वाभिप्रमन्वते

विश्वास-प्रस्तुतिः ...{Loading}...

भूमिर् इति त्वाभिप्रमन्वते जना
निरृतिर् इति त्वाहं परि वेद विश्वतः ।
भूते हविष्मत्य् अस्य् एष ते भगस्
तेन ते विधेयं स्वाहा ॥

१२ एवो ष्व् अस्मत्

विश्वास-प्रस्तुतिः ...{Loading}...

एवो ष्व् अस्मत् त्वं निरृते विश्ववारे
अयस्मयान् प्र मुमुग्धि पाशान् ।
यमेन त्वं यम्या संविदाना +++(Bhatt. saṃvidāno)+++
यो अस्मान् द्वेष्टि यं वयं द्विष्मस् +++(Bhatt. yo ‘smān)+++
तस्मिन् तान् पाशान् प्रति मुञ्च सर्वान् ॥

१३ उत्तमो अस्य् ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तमो अस्य् ओषधीनां
तव वृक्षा उपस्तयः ।
उपस्तिर् अस्माकं भूयाद्
यो ऽस्माँ अभिदासति ॥

१४ सबन्धुश् चासबन्धुश् च

विश्वास-प्रस्तुतिः ...{Loading}...

सबन्धुश् चासबन्धुश् च
यो ऽस्माँ अभिदासति ।
सबन्धून् सर्वांस् तीर्त्वा-
-अहं भूयासम् उत्तमः ॥

१५ यथा सोम ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सोम ओषधीनाम्
उत्तमं हविर् उच्यते ।
एवा त्वम् इव वृक्षाणाम्
अहं भूयासम् उत्तमः ॥