सर्वाष् टीकाः ...{Loading}...
०१ त्वष्टा मे दैव्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा मे दैव्यं वचः
पर्जन्यो ब्रह्मणस्पतिः ।
पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नो
दुष्टरं त्रामणे शवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा मे दैव्यं वचः
पर्जन्यो ब्रह्मणस्पतिः ।
पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नो
दुष्टरं त्रामणे शवः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अंशो भगो वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
अंशो भगो वरुणो मित्रो अर्यमा-
-अदितिः पात्व् अंहसः ।
अप तस्य द्वेषो गमेद्
अविह्रुतो यावयाच् छत्रुम् ?अन्ति तम्? ॥
मूलम् ...{Loading}...
मूलम् (GR)
अंशो भगो वरुणो मित्रो अर्यमा-
-अदितिः पात्व् अंहसः ।
अप तस्य द्वेषो गमेद्
अविह्रुतो यावयाच् छत्रुम् ?अन्ति तम्? ॥
सर्वाष् टीकाः ...{Loading}...
०३ देव त्वष्टर् वर्धय
विश्वास-प्रस्तुतिः ...{Loading}...
देव त्वष्टर् वर्धय सर्वतातये
धिये सम् उ श्रिये प्रावतान् नः ।
उरुष्या ण उरुतराप्रयुच्छन् (Bhatt. urutaraḥ prayucchan)
द्यौष् पितर् यावय दुच्छुनाम् इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
देव त्वष्टर् वर्धय सर्वतातये
धिये सम् उ श्रिये प्रावतान् नः ।
उरुष्या ण उरुतराप्रयुच्छन् (Bhatt. urutaraḥ prayucchan)
द्यौष् पितर् यावय दुच्छुनाम् इतः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये नो वचोभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
ये नो वचोभिर् उत दंसनाभिस्
तन्वं सोम परितापयन्ते ।
नीचैस् तान् वृश्च न यथा विरुक्षन्
मा ते दृशन् सूर्यम् उच्चरन्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नो वचोभिर् उत दंसनाभिस्
तन्वं सोम परितापयन्ते ।
नीचैस् तान् वृश्च न यथा विरुक्षन्
मा ते दृशन् सूर्यम् उच्चरन्तम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्वयेष्वा त्वया सोम
विश्वास-प्रस्तुतिः ...{Loading}...
त्वयेष्वा त्वया सोम धन्वना (Bhatt. tvayeṣṭā, dhanvinā)
त्वया मुष्टिघ्ना शाशद्महे वयम् ।
त्वं तान् वृश्च य इदं न ?आदृशाकरन्? (Bhatt. karaṃ)
हनाम दण्डैर् उत दंसनाभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वयेष्वा त्वया सोम धन्वना (Bhatt. tvayeṣṭā, dhanvinā)
त्वया मुष्टिघ्ना शाशद्महे वयम् ।
त्वं तान् वृश्च य इदं न ?आदृशाकरन्? (Bhatt. karaṃ)
हनाम दण्डैर् उत दंसनाभिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ पदेन तान् पदन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
पदेन तान् पदन्यो नयन्तु
वधैर् एनान् पितरो दंसयन्तु ।
यथा न जीवात् कतमश् चनैषाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पदेन तान् पदन्यो नयन्तु
वधैर् एनान् पितरो दंसयन्तु ।
यथा न जीवात् कतमश् चनैषाम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ येन सोमादितिः पथा
विश्वास-प्रस्तुतिः ...{Loading}...
येन सोमादितिः पथा
मित्रा वा यन्त्य् अद्रुहः ।
तेना नो ऽविता भुवः ॥ (Bhatt. novitā)
मूलम् ...{Loading}...
मूलम् (GR)
येन सोमादितिः पथा
मित्रा वा यन्त्य् अद्रुहः ।
तेना नो ऽविता भुवः ॥ (Bhatt. novitā)
सर्वाष् टीकाः ...{Loading}...
०८ यो नः सोम
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः सोम सुशंसिनो
दुःशंसो अभिदासति ।
वज्रेणास्य मुखे जहि
स संपिष्टो अपायति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नः सोम सुशंसिनो
दुःशंसो अभिदासति ।
वज्रेणास्य मुखे जहि
स संपिष्टो अपायति ॥
सर्वाष् टीकाः ...{Loading}...
०९ यो नः सोमाभिदासति
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः सोमाभिदासति
सनाभिर् यश् च निष्टियः । (Bhatt. niṣṭyaḥ+)
अप तस्य बलं तिर
महीव द्यौर् वध त्मना ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नः सोमाभिदासति
सनाभिर् यश् च निष्टियः । (Bhatt. niṣṭyaḥ+)
अप तस्य बलं तिर
महीव द्यौर् वध त्मना ॥
सर्वाष् टीकाः ...{Loading}...
१० पुनर् अघम् अघकृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुनर् अघम् अघकृतम् एतु देवाः
पुनर् एन एनस्कृतं विजानत् । (Bhatt. om. vi)
पुनः पुत्रः पितरम् एतु विद्वान्
हताम् उत यद् अस्य स्वम् अस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनर् अघम् अघकृतम् एतु देवाः
पुनर् एन एनस्कृतं विजानत् । (Bhatt. om. vi)
पुनः पुत्रः पितरम् एतु विद्वान्
हताम् उत यद् अस्य स्वम् अस्ति ॥
सर्वाष् टीकाः ...{Loading}...
११ येन चासौ शपति
विश्वास-प्रस्तुतिः ...{Loading}...
येन चासौ शपति
येन चैनं शपामसि ।
उभौ संवृह्य तौ तस्माद् (Bhatt. -vṛjya)
अन्तिकाद् धेतिम् अस्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन चासौ शपति
येन चैनं शपामसि ।
उभौ संवृह्य तौ तस्माद् (Bhatt. -vṛjya)
अन्तिकाद् धेतिम् अस्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ ये पार्थिवासः शपथा
विश्वास-प्रस्तुतिः ...{Loading}...
ये पार्थिवासः शपथा
य उराव् अन्तरिक्षे ।
ये वातस्य प्रभर्मणि
तेभिष् टं वर्तयामसि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ (Bhatt. om. dviṣmaḥ)
मूलम् ...{Loading}...
मूलम् (GR)
ये पार्थिवासः शपथा
य उराव् अन्तरिक्षे ।
ये वातस्य प्रभर्मणि
तेभिष् टं वर्तयामसि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ (Bhatt. om. dviṣmaḥ)
सर्वाष् टीकाः ...{Loading}...
१३ ये अस्मान् परिसीसृपुः
विश्वास-प्रस्तुतिः ...{Loading}...
ये अस्मान् परिसीसृपुः (Bhatt. yo ‘smān pari sāsṛpaḥ)
कुलीपयानि बिभ्रतः ।
उद् देवस् तेषां वृश्चत (Bhatt. devās)
मूलम् उर्वार्वो यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अस्मान् परिसीसृपुः (Bhatt. yo ‘smān pari sāsṛpaḥ)
कुलीपयानि बिभ्रतः ।
उद् देवस् तेषां वृश्चत (Bhatt. devās)
मूलम् उर्वार्वो यथा ॥
सर्वाष् टीकाः ...{Loading}...
१४ यद् देवा अघधा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् देवा अघधा अघम् (Bhatt. yo, -dhām agham)
अन्यस्मिन्न् आ सिसंक्षति । (Bhatt. āsisasaṅkṣati)
भारो अघस्य दुःसहः
प्रत्यक् कर्तारम् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् देवा अघधा अघम् (Bhatt. yo, -dhām agham)
अन्यस्मिन्न् आ सिसंक्षति । (Bhatt. āsisasaṅkṣati)
भारो अघस्य दुःसहः
प्रत्यक् कर्तारम् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
१५ पुनर् एवाघधाम् अघम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुनर् एवाघधाम् अघं
द्युम्नम् ?इवैतुर् अर्षतु । (Bhatt. nyumnam)
आदित्यादुर्यामहिषा? (Bhatt. -duryamāhiṣā)
मही सिन्धोर् इवावनिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनर् एवाघधाम् अघं
द्युम्नम् ?इवैतुर् अर्षतु । (Bhatt. nyumnam)
आदित्यादुर्यामहिषा? (Bhatt. -duryamāhiṣā)
मही सिन्धोर् इवावनिः ॥