००१

सर्वाष् टीकाः ...{Loading}...

०१ दोषो गाय बृहद्

विश्वास-प्रस्तुतिः ...{Loading}...

दोषो गाय बृहद् गाय
द्युमद् गायाथर्वण ।
स्तुहि देवं सवितारम् ॥

०२ तम् उ स्तुह्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तम् उ स्तुह्य् अन्तःसिन्धुं
सूनुं सत्यस्य युवानम् ।
अद्रोघवाचं सुशेवम् ॥

०३ स घा नो

विश्वास-प्रस्तुतिः ...{Loading}...

स घा नो देवः सविता-
-आसाविषद् वसुपतिर् वसूनि ।
उभे सुष्टुती सुगातुम् ॥

०४ इन्द्राय सोमम् ऋत्विजः

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राय सोमम् ऋत्विजः
सुनोतना च धावत ।
स्तोतुर् यो हवं शृणवद् धवं च नः ॥

०५ सुनोता सोमपाव्ने सोमम्

विश्वास-प्रस्तुतिः ...{Loading}...

सुनोता सोमपाव्ने
सोमम् इन्द्राय वज्रिणे ।
युवा जेतेशानः स पुरुष्टुतः ॥

०६ आ त्वा विशन्त्व्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा विशन्त्व् इन्दवो
वयो न वृक्षम् अन्धसः । (Bhatt. andhasā)
विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥

०७ आरे असाव् अस्मद्

विश्वास-प्रस्तुतिः ...{Loading}...

आरे असाव् अस्मद् अस्तु
हेतिर् देवासो असत् ।
आरे मर्तानाम् अशस्तिः ॥

०८ सखैव नो रातिर्

विश्वास-प्रस्तुतिः ...{Loading}...

सखैव नो रातिर् अस्तु
सखेन्द्रः सखा सविता ।
सखा भगः सत्यधर्मा नो अस्तु ॥

०९ अभि नो देवीर्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि नो देवीर् अवसा
महाशर्मणा नृपत्नीः ।
अच्छिन्नपत्राः सचन्ताम् ॥

१० ईडे अग्निं भवम्

विश्वास-प्रस्तुतिः ...{Loading}...

ईडे अग्निं भवं सर्वं रक्ष उब्जद्
अहिं बलासम् उत सेदिम् उग्राम् ।
आरे अस्मद् अदिते दैव्यं भयं
सुवीर्यं मरुतः शर्म यच्छत ॥

११ ईडे द्यावापृथिवी पर्वताम्

विश्वास-प्रस्तुतिः ...{Loading}...

ईडे द्यावापृथिवी पर्वताꣳ अपः
स्वः सूर्यम् उर्व् अन्तरिक्षम् ।
वनस्पतीन् ओषधीर् गा उत र्च
ऋतस्य नः पतयो मृडयन्तु ॥

१२ हुवे विष्णुं पूषणम्

विश्वास-प्रस्तुतिः ...{Loading}...

हुवे विष्णुं पूषणं ब्रह्मणस्पतिं
भगं नु शंसं सवितारम् ऊतये ।
इह सोमो वरुणो वायुर् अग्निर्
भग उग्रा अवसे नो गमन्तु ॥

१३ पातं न इन्द्रापूषणा

विश्वास-प्रस्तुतिः ...{Loading}...

पातं न इन्द्रापूषणा
वरुणः पान्तु मरुतः ।
अपां नपात् सिन्धवः सप्त पातन
पातु विष्णुर् उत द्यौः ॥

१४ पातां नो द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

पातां नो द्यावापृथिवी अभिष्टये
पातु ग्रावा पातु सोमो नो अंहसः ।
पातु नो देवी सुहवा सरस्वती
पात्व् अग्निर् ये शिवा अस्य पायवः ॥

१५ पातां नो देवाश्विना

विश्वास-प्रस्तुतिः ...{Loading}...

पातां नो देवाश्विना सुदंससा-
-उषासानक्तोत न उरुष्यताम् ।
अपां नपाद् अविह्रुती कयस्य चिद् (Bhatt. tac cid)
देवो मूर्धन्न् अदिते शर्म यच्छ नः ॥ (Bhatt. divo)