०८२

सर्वाष् टीकाः ...{Loading}...

०१ यद् वो अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वो अग्निर् अजहाद् एकम् अङ्गं
पितृलोकं गमयं जातवेदाः ।
तद् व एतत् पुनर् आ वेशयामि
साङ्गाः सर्वे पितरो मादयध्वम् ॥

०२ असौ हा इह

विश्वास-प्रस्तुतिः ...{Loading}...

असौ हा इह ते मनः ।
कपुत्सलम् इव जामयो
ऽभ्य् एनं भूम ऊर्णूहि ॥

०३ रमध्वं मा बिभीतना

विश्वास-प्रस्तुतिः ...{Loading}...

रमध्वं मा बिभीतना
अस्मिन् गोष्ठे करीषिणः ।
ऊर्जं दधानाः सकृतः शचिव्रता (Bhatt. dadhānā(ḥ))
गृहा जीवन्त उप वः सदेम ॥

०४ ऊर्जं मे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जं मे देवा अदधुर्
ऊर्जं मनुष्या उत ।
ऊर्जं पितृभ्य आहार्षम्
ऊर्जस्वन्तो गृहा मम ॥

०५ पयो मे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

पयो मे देवा अदधुः
पयो मनुष्या उत ।
पयः पितृभ्य आहर्षं
पयस्वन्तो गृहा मम ॥

०६ उद् उत्तमं वरुण

विश्वास-प्रस्तुतिः ...{Loading}...

उद् उत्तमं वरुण पाशम् अस्मद्
अवाधमं वि मध्यमं श्रथाय ।
अथादित्य व्रते वयं तव-
-अनागसो ऽदितये स्याम ॥

०७ ये ते शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते शतं वरुण ये सहस्रं
यज्ञियाः पाशा वितता महान्तः ।
तेभ्यो अस्मान् वरुणः सोम इन्द्रो
विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥

०८ प्रास्मत् पाशान् वरुण

विश्वास-प्रस्तुतिः ...{Loading}...

प्रास्मत् पाशान् वरुण मुञ्च सर्वान् (Bhatt. pāśāṃ … sarvāṃ)
यैः सममे बध्यते यैर् व्यामे ।
अथ जीवेम शरदः शतानि
त्वाय राजन् गुपितो रक्षमाणः ॥

०९ अव ते हेड

विश्वास-प्रस्तुतिः ...{Loading}...

अव ते हेड ईमहे नमोभिर्
अव यज्ञेभिर् ईमहे हविर्भिः ।
(…)यद् अस्मद् वरुण प्रचेतो
राजन्न् एनांसि शिश्रथः कृतानि ॥

१० चन्द्रमा अप्स्व् अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

चन्द्रमा अप्स्व् अन्तर् आ
सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः
पदं विन्दन्ति विद्युतो
वित्तं मे अस्य रोदसी ॥