०८१

सर्वाष् टीकाः ...{Loading}...

०१ ऊर्जो भागो य

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो भागो य इदं यजानाम्
अश्मान्नानाम् अधिपतिर् बभूव ।
तम् अर्चत विश्वमित्रा हविर्भिः
स नो यमः प्रतरं जीवसे धात् ॥

०२ यथा यमाय हर्म्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा यमाय हर्म्यम्
अवपन् पञ्च मानवाः ।
एवा वपामि हर्म्यं (Bhatt. vapāpāmi (vapāmi?))
यथा मे भूरयो ऽसथ ॥

०३ इदं हिरण्यं बिभृहि

विश्वास-प्रस्तुतिः ...{Loading}...

इदं हिरण्यं बिभृहि
यत् ते पिताबिभः पुरा ।
स्वर्गं यतः पितुर् हस्तं
निर् मृड्ढी दक्षिणम् ॥

०४ ये जीवा ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये जीवा ये च मृता
ये जाता ये च यज्ञियाः ।
तेभ्यो घृतस्य कुल्यैतु
शतधारा व्य् उन्दती ॥

०५ वृषा मतीनां पवते

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा मतीनां पवते विचक्षणः
सूरो अह्नां प्रतरीतोषसां दिवः ।
प्राणः सिन्धूनां कलशाꣳ अचिक्रदद् (Bhatt. kalaśāṃ)
इन्द्रहार्दिवम् आविशन् मनीषया ॥

०६ त्वेषस् ते धूमा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वेषस् ते धूमा ऊर्णोति
दिवि षं छुक आततः ।
सूरो न हि द्यता त्वां
कृपा पावक रोचसे ॥

०७ प्र वा एतीन्दुर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वा एतीन्दुर् इन्द्रस्य निष्कृतिं
सखा सख्युर् न प्र मिनाति सङ्गिरम् ।
मर्य इव योषाः सम् अर्षते
सोमः कलशे शतयामना पथा ॥

०८ आ यत पितरः

विश्वास-प्रस्तुतिः ...{Loading}...

आ यत पितरः सोम्यासो
गम्भीरेभिः पथिभिः पितृयाणैः । (Bhatt. gabhbhīrebhiḥ, misprint)
प्रजाम् अस्मभ्यं दधतो रयिं च
दीर्घायुत्वाय शतशारदाय ॥

०९ परा यात पितरः

विश्वास-प्रस्तुतिः ...{Loading}...

परा यात पितरः सोम्यासो
गम्भीरेभिः पथिभिः पितृयाणैः ।
अधा मासि पुनर् आ यात नो गृहं (Bhatt. panar, misprint)
हविर् अन्नं सुप्रजसः सुवीराः ॥

१० अक्षन्न् अमीमदन्त अव

विश्वास-प्रस्तुतिः ...{Loading}...

अक्षन्न् अमीमदन्त-
-अव प्रिया अधूषत ।
अस्तोषत स्वभानवः
परेत पितरो गृहान् ॥