०८०

सर्वाष् टीकाः ...{Loading}...

०१ सम् इन्धते अमर्त्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

सम् इन्धते अमर्त्यं
हव्यवाहं घृतप्रियम् ।
स वेद निहितान् निधीन्
पितॄन् परावतो गतान् ॥

०२ यं ते मन्थम्

विश्वास-प्रस्तुतिः ...{Loading}...

यं ते मन्थं यं कलम्भं
यम् ओदनं यन् मासं निपृणामि ते । +++(Bhatt. nipṛṇāma*)+++
ते ते सन्तु स्वधावन्तो
मधमन्तो घृतश्चुतः ॥

०३ सरस्वतीं यां सुकृतो

विश्वास-प्रस्तुतिः ...{Loading}...

सरस्वतीं यां सुकृतो हवन्ते
दक्षिणा यज्ञम् अभिनक्षमाणाः ।
सहस्रायोर् मैनान् अत्र परा दा
दीर्घम् एषाम् आयुष् कृणु विश्वरूपे ॥

०४ इदं पूर्वम् अपरम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं पूर्वम् अपरं नियानं
येन ते पूर्वे पितरः परेताः ।
पुरोगवा ये अभिशाचो अस्य +++(Bhatt. abhiśā(⟨ ṣā)co)+++
ते त्वा वहन्तु सुकृताम् उलोकम् ॥

०५ पृथिवीं त्वा पृथिव्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

पृथिवीं त्वा पृथिव्याम् आ वेशयामि
देवो नो धाता सवितात्य् आयुः ।
परापुरैता वसुविद् वो अस्त्व् +++(Bhatt. purī(⟨ rai)tā)+++
अधा मृतैः पितरः सं भवाथ ॥

०६ एयम् अगन् दक्षिणा

विश्वास-प्रस्तुतिः ...{Loading}...

एयम् अगन् दक्षिणा भद्रतो नो
अनेन दत्ता सुदुघा वयोधाः । +++(Bhatt. vayodhā(ḥ))+++
यौवने जीवाँ अपि पृञ्चती जरा +++(Bhatt. (jarā))+++
परा पितृभ्य उप सं पराणयात् ॥

०७ आ प्र च्यवेथाम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्र च्यवेथाम् अप तं नुदेथां
यद् वाम् अभिभा अत्रोदुः ।
अर्वाञ् चावेतम् अघ्न्यौ तद् वशीयो
दात्रे पितृष्व् इह भोजनौ मम ॥

०८ इदं पितृभ्यः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

इदं पितृभ्यः प्र हरामि बर्हिर्
जीवं देवेभ्य उत्तरं स्तृणामि ।
तद् आ रोह पुरुषो मेध्यो भवन्
प्रति त्व जानन्तु पितरः परेतम् ॥

०९ एवं बर्हिर् असदो

विश्वास-प्रस्तुतिः ...{Loading}...

एवं बर्हिर् असदो मेध्यो भवन्
प्रति त्व जानन्तु पितरः परेतम् ।
यथापरु तन्वं सं भरस्व
गात्राणि ते ब्रह्मणा कल्पयामि ॥

१० पर्णो राजापिधानं चरूणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

पर्णो राजापिधानं चरूणाम्
ऊर्जो बलं सह ओजो न आगन् ।
आयुर् जीवेभ्यो विदधद्
दीर्घयुत्वाय शतशारदाय ॥