सर्वाष् टीकाः ...{Loading}...
०१ एतत् ते देवः
विश्वास-प्रस्तुतिः ...{Loading}...
एतत् ते देवः सविता
वासो ददातु भर्तवे ।
तत् त्वं यमस्य राज्ये
वसानस् तार्प्यं चर ॥ (see ŚS 18.4.31; Bhatt. tāryañ)
मूलम् ...{Loading}...
मूलम् (GR)
एतत् ते देवः सविता
वासो ददातु भर्तवे ।
तत् त्वं यमस्य राज्ये
वसानस् तार्प्यं चर ॥ (see ŚS 18.4.31; Bhatt. tāryañ)
सर्वाष् टीकाः ...{Loading}...
०२ धाना धेनुर् भवद्
विश्वास-प्रस्तुतिः ...{Loading}...
धाना धेनुर् भवद् वत्सो
अस्यास् तिलो ऽभवत् ।
तां त्वं यमस्य राज्ये
+ऽक्षिताम् उप जीवतात् ॥ (Bhatt. akṣitam)
मूलम् ...{Loading}...
मूलम् (GR)
धाना धेनुर् भवद् वत्सो
अस्यास् तिलो ऽभवत् ।
तां त्वं यमस्य राज्ये
+ऽक्षिताम् उप जीवतात् ॥ (Bhatt. akṣitam)
सर्वाष् टीकाः ...{Loading}...
०३ एतास् ते असौ
विश्वास-प्रस्तुतिः ...{Loading}...
एतास् ते असौ धानाः
कामदुघा भवन्तु ।
एनीः श्येनीर् विरूपाः सरूपास्
तिलवत्सा उप तिष्ठन्तु त्वात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतास् ते असौ धानाः
कामदुघा भवन्तु ।
एनीः श्येनीर् विरूपाः सरूपास्
तिलवत्सा उप तिष्ठन्तु त्वात् ॥
सर्वाष् टीकाः ...{Loading}...
०४ एनीर् धाना हरिणीः
विश्वास-प्रस्तुतिः ...{Loading}...
एनीर् धाना हरिणीः श्येनीर् आसु
कृष्णा धाना हरिणीर् धेनवस् ते ।
तिलवत्सा ऊर्जम् अस्मै दुहाना
विश्वहा सन्त्व् अनपस्फुरन्तीः ॥ (Bhatt. -rantī(ḥ))
मूलम् ...{Loading}...
मूलम् (GR)
एनीर् धाना हरिणीः श्येनीर् आसु
कृष्णा धाना हरिणीर् धेनवस् ते ।
तिलवत्सा ऊर्जम् अस्मै दुहाना
विश्वहा सन्त्व् अनपस्फुरन्तीः ॥ (Bhatt. -rantī(ḥ))
सर्वाष् टीकाः ...{Loading}...
०५ वैश्वानरे हविर् इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरे हविर् इदं जुहोम्य्
एतं साहस्रं शतधारम् उत्सम् ।
स बिभरत् पितरं पितामहं
प्रपितामहान् बिभरत् पिन्वमानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरे हविर् इदं जुहोम्य्
एतं साहस्रं शतधारम् उत्सम् ।
स बिभरत् पितरं पितामहं
प्रपितामहान् बिभरत् पिन्वमानः ॥
सर्वाष् टीकाः ...{Loading}...
०६ उत्सं शतधारम् अक्षितम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्सं शतधारम् अक्षितं
व्यचमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानम् अनपस्फुरन्तम्
उपासतां सुकृतां यत्र लोकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्सं शतधारम् अक्षितं
व्यचमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानम् अनपस्फुरन्तम्
उपासतां सुकृतां यत्र लोकः ॥
सर्वाष् टीकाः ...{Loading}...
०७ इदं कसाम्बु चयनेन
विश्वास-प्रस्तुतिः ...{Loading}...
इदं कसाम्बु चयनेन चित्तं
तत् सजाता अव पश्यतेत ।
मर्त्यो अमृत्युम् अमृतत्व एति
तस्मै लोकं कृणुत यावत्सबन्धु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं कसाम्बु चयनेन चित्तं
तत् सजाता अव पश्यतेत ।
मर्त्यो अमृत्युम् अमृतत्व एति
तस्मै लोकं कृणुत यावत्सबन्धु ॥
सर्वाष् टीकाः ...{Loading}...
०८ इहैवैधि धनसनिर् इह
विश्वास-प्रस्तुतिः ...{Loading}...
इहैवैधि धनसनिर्
इह चित्त इहक्रतुः ।
इहैधि वीरवत्तरो
वयोधा अपराहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैवैधि धनसनिर्
इह चित्त इहक्रतुः ।
इहैधि वीरवत्तरो
वयोधा अपराहितः ॥
सर्वाष् टीकाः ...{Loading}...
०९ पुत्रान् पौत्रान् अभि
विश्वास-प्रस्तुतिः ...{Loading}...
पुत्रान् पौत्रान् अभि तर्पयन्तीर्
आपो मधुमतीर् इमाः ।
स्वधां पितृभ्यो अंर्तं दुहाना
आपो देवीर् उभयांस् तर्पयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुत्रान् पौत्रान् अभि तर्पयन्तीर्
आपो मधुमतीर् इमाः ।
स्वधां पितृभ्यो अंर्तं दुहाना
आपो देवीर् उभयांस् तर्पयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
१० आपो अग्निं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
आपो अग्निं प्र हिणुतेमं
यज्ञं पितरो नो जुषन्ताम् ।
मासीनाम् ऊर्जम् उप ये सचन्ते
ते नो रयिं सर्ववीरं नि यच्छान् ॥ (Bhatt. ni yacchāt)
मूलम् ...{Loading}...
मूलम् (GR)
आपो अग्निं प्र हिणुतेमं
यज्ञं पितरो नो जुषन्ताम् ।
मासीनाम् ऊर्जम् उप ये सचन्ते
ते नो रयिं सर्ववीरं नि यच्छान् ॥ (Bhatt. ni yacchāt)