०७८

सर्वाष् टीकाः ...{Loading}...

०१ अपूपवान् मधुवांश् चरुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपवान् मधुवांश् चरुर् एह (…) ॥ +++(see 18.77,6abcd)+++

०२ अपूपवान् अन्नवांश् चरुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपवान् अन्नवांश् चरुर् एह (…) ॥ +++(see 18.77,6abcd)+++

०३ अपूपवान् रसवांश् चरुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपवान् रसवांश् चरुर् एह (…) ॥ +++(see 18.77,6abcd)+++

०४ अपूपवान् ऊर्जावांश् चरुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपवान् ऊर्जावांश् चरुर् एह (…) ॥ +++(see 18.77,6abcd)+++

०५ अपूपवान् यववांश् चरुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपवान् यववांश् चरुर् एह सीदतु-
-उत्तभ्नुवन् पृथिवीं द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥

०६ अपूपपिहितान् कुम्भान् यांस्

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपपिहितान् कुम्भान्
यांस् ते देवा अधारयन् ।
ते ते सन्तु स्वधावन्तो
मधुमन्तो घृतश्चुतः ॥

०७ यास् ते धाना

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते धाना अनुकिरामि
तिलमिश्राः स्वधावतीः ।
तास् ते सन्तु विभ्वीः प्रभ्वीस् +++(Bhatt. vibhvī(ḥ)+)+++
तास् ते राजानु मन्यतां
यमो अक्षितं भूयांसम् ॥

०८ द्रप्सश् चस्कन्द प्रथमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

द्रप्सश् चस्कन्द प्रथमाम् अनु द्याम्
इमं च योनिम् अनु यश् च पूर्वः ।
ऋतस्य योनिम् अनु संचरन्तं
द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

०९ शतधारं वायुम् अर्कम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतधारं वायुम् अर्कं स्वर्विदं
नृचक्षसस् ते अभि चक्षते रयिम् ।
ये गृणन्ति प्र च यक्षन्ति सर्वदा
ते दुह्रते दक्षिणां सप्तमातरम् ॥

१० उत्सन् दुहन्ति कलशम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्सन् दुहन्ति कलशं चतुर्बिलं
मृडां धेनुं मधुमतीं स्वस्तये ।
ऊर्जं मदन्तीम् अदितिं जनेष्व्
अग्ने मा हिंसीः परमे व्योमन् ॥