०७६

सर्वाष् टीकाः ...{Loading}...

०१ आ रोहत जनित्रीम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ रोहत जनित्रीं जातवेदसः
पितृयानैः सं व आ रोहयामि ।
अवाड् ढ्व्येषिता हव्यवाह
ईजानं युक्ताः सुकृतं धत्त लोके ॥

०२ देवा यज्ञम् ऋतवः

विश्वास-प्रस्तुतिः ...{Loading}...

देवा यज्ञम् ऋतवः कल्पयन्ति
हविः पुरोडाशां स्रुचो यज्ञ आयुधानि ।
तेभिर् याहि पथिभिर् देवयानैर्
यैर् ईजानाः स्वर्गं यन्ति लोकम् ॥

०३ ऋतस्य पन्थाम् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतस्य पन्थाम् अनु पश्य साध्व्
अङ्गिरसः सुकृतो येन यन्ति
व्रध्नस्य विष्टप्य् अधि वि क्रमस्व
यत्रादित्या अमृतम् ईक्षयन्ति ॥

०४ त्रयः सुपर्णा उपरस्यासखायू

विश्वास-प्रस्तुतिः ...{Loading}...

त्रयः सुपर्णा उपरस्यासखायू
नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।
स्वर्गा लोका अमृतेन विष्टा +++(Bhatt. viṣṭā(ḥ))+++
कामंकामं यजमानाय दुह्राम् ॥

०५ जुहूर् दाधार द्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

जुहूर् दाधार द्याम् उपहृद् अन्तरिक्षं
ध्रुवां दाधार पृथिवीं प्रतिष्ठाम् ।
प्रतिमा लोकानां घृतपृष्ठा प्रपीनां +++(Bhatt. ghṛtapṛṣṭhā(ḥ))+++
स्वधाम् ऊर्जं यजमानाय दुह्राम् ॥

०६ ध्रुव आ रोह

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुव आ रोह पृथिवीं विश्ववेदसम्
अन्तरिक्षम् उपहृद् आ क्रमस्व ।
जुहु द्यां गच्छ यजमानेन साकं
स्रुवेन वत्सेन दिशः प्रपीनाः
सर्वा धुक्षा अहृणीयमानाः ॥

०७ तीर्थैस् तरन्ति प्रवतो

विश्वास-प्रस्तुतिः ...{Loading}...

तीर्थैस् तरन्ति प्रवतो महीर् अनु
यज्ञकृतः सुकृतो येन यन्ति ।
अत्राभजं यजमानाय लोकं
दिशो भूतानि मयि कल्पयन्त ॥ +++(Bhatt. kalpayanta(ḥ))+++

०८ अङ्गिरसाम् अयनं पूर्वो

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गिरसाम् अयनं पूर्वो अग्निर्
आदित्यानाम् अयनं गार्हपत्यो
दक्षिणानाम् अयनं दक्षिणाग्निः ।
पद्मानम् अग्नेर् विहितस्य ब्राह्मणा
समङ्गः सर्व उप याहि शग्मम् ॥

०९ पूर्वो अग्निस् त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वो अग्निस् त्वा तपतु शं पुरस्ताच्
छं पश्चात् तपतु गार्हपत्यः ।
दक्षिणाग्निस् तपतु शर्म वर्म-
-उत्तरतो मध्यतो अन्तरिक्षाद्
दिशोदिशो अग्ने परि पाहि घोरात् ॥

१० यूयम् अग्ने शन्तमाभिस्

विश्वास-प्रस्तुतिः ...{Loading}...

यूयम् अग्ने शन्तमाभिस् तनूभिर्
ईजानो अभि लोकं स्वर्गम् ।
अश्व भूत्वा पृष्टिवाहो वहाथ
यत्र देवैः सधमादं मदन्ति ॥