०७५

सर्वाष् टीकाः ...{Loading}...

०१ सं गच्छस्व पितृभिः

विश्वास-प्रस्तुतिः ...{Loading}...

सं गच्छस्व पितृभिः सं यमेन- +++(Bhatt. pitṛmiḥ (misprint))+++
-इष्टापूर्तेन परमे व्योमन् ।
हित्वावद्यं पुनर् अस्तम् एहि +++(Bhatt. hitvā vāvadyaṃ)+++
सं गच्छस्व तन्वा सुवर्चाः ॥

०२ ये अग्निदग्धा ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये अग्निदग्धा ये ऽनग्निदग्धा
मध्ये दिवः स्वधया मादयन्ते । +++(Bhatt. divaḥ(ḥ))+++
तेभ्यः स्वराड् असुनीतिम् एतां
यथावशं तन्वं कल्पयाति ॥

०३ आ रभस्व जातवेदस्

विश्वास-प्रस्तुतिः ...{Loading}...

आ रभस्व जातवेदस्
तेजस्वद् धरो अस्तु ते । +++(Bhatt. tejasva(d))+++
शरीरम् अस्य सं दह- +++(Bhatt.daha athainaṃ (without sandhi))+++
-अथैनं धेहि सुकृताम् उलोके ॥

०४ पुनर् देहि वनस्पते

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् देहि वनस्पते
य एष निहितस् त्वयि ।
यथा यमसादन
आसातै विदथा वदन् ॥ +++(Bhatt. āsatai)+++

०५ शं ते निहारो

विश्वास-प्रस्तुतिः ...{Loading}...

शं ते निहारो भवतु
शं ते पृष्ठाव शीयताम् ।
शीतिके शीतिकावत्य्
अह्लादके ह्लादकावति ।
मण्डूक्याप्सु सं भव
इमं स्व् अग्निं शमय ॥

०६ विवस्वान् नो ऽभयम्

विश्वास-प्रस्तुतिः ...{Loading}...

विवस्वान् नो ऽभयं कृणोतु
परैतु मृत्युर् अमृतं न ऐतु ।
इह मे वीरा बहवो भवन्त्व्
अश्वावद् गोमन् मय्य् अस्तु पुष्टम् ॥

०७ विवस्वान् नो ऽमृतत्वे

विश्वास-प्रस्तुतिः ...{Loading}...

विवस्वान् नो ऽमृतत्वे दधातु
यः सुत्रामा जीरदानुः सुदानुः ।
इमान् रक्षः पुरुषान् आ जरिम्णो +++(Bhatt. jarimṇostā)+++
मो ष्व् एषाम् असवो यमं गुः ॥

०८ यो दध्रे अन्तरिक्षेण

विश्वास-प्रस्तुतिः ...{Loading}...

यो दध्रे अन्तरिक्षेण मह्ना
पितॄणां कविः प्रमतिर् मतीनाम् ।
तम् अर्चत विश्वमित्रा हविर्भिः
स नो यमः प्रतरं जीवसे धात् ॥

०९ आ रोहत दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ रोहत दिवम् उत्तमाम्
ऋषयो मा बिभीतन ।
सोमपाः सोमपायिन +++(Bhatt. somapāyinaḥ)+++
इदं वः क्रियते हविर्
अगन्म ज्योतिर् उत्तमम् ॥

१० प्र केतुन बृहता

विश्वास-प्रस्तुतिः ...{Loading}...

प्र केतुन बृहता भात्य् अग्निर्
आ रोदसी वृषभो रोरवीति ।
दिवश् चिद् अन्ताँ उपमाँ उद् आनड्
अपाम् उपस्थे महिषो ववर्ध ॥

११ नाके सुपर्णम् उप

विश्वास-प्रस्तुतिः ...{Loading}...

नाके सुपर्णम् उप यत् पतन्तं
हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं
यमस्य योनौ शकुनं भुरण्यम् ॥

१२ इन्द्र क्रतुं न

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र क्रतुं न आ भर
पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत वाजिनि
जीवा ज्योतिर् अशीमहि ॥

१३ ये ते पूर्व

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते पूर्व इत्य् एका ॥ +++(PS 8.19.5 is repeated)+++