सर्वाष् टीकाः ...{Loading}...
०१ अपश्यं युवतीं नीयमानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपश्यं युवतीं नीयमानां
जीवां मृतेभ्यः परिणीयमानाम् । (Bhatt. jīvā)
अन्धेन यत् तमसा प्रावृतासीत्
प्राक्तो अवाचीम् अनयं तद् एनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपश्यं युवतीं नीयमानां
जीवां मृतेभ्यः परिणीयमानाम् । (Bhatt. jīvā)
अन्धेन यत् तमसा प्रावृतासीत्
प्राक्तो अवाचीम् अनयं तद् एनाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रजानत्य् अघ्न्ये जीवलोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजानत्य् अघ्न्ये जीवलोकं भवन्ती
देवानां पन्थाम् अनुसंचरन्ती ।
एष ते गोपतिस् तं जुषस्व
स्वर्गं लोकम् अधि रोहयैनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजानत्य् अघ्न्ये जीवलोकं भवन्ती
देवानां पन्थाम् अनुसंचरन्ती ।
एष ते गोपतिस् तं जुषस्व
स्वर्गं लोकम् अधि रोहयैनम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उप द्याम् उप
विश्वास-प्रस्तुतिः ...{Loading}...
उप द्याम् उप वेतसम्
अवत्तरो नदीनाम् ।
अग्ने पित्तम् अपाम् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप द्याम् उप वेतसम्
अवत्तरो नदीनाम् ।
अग्ने पित्तम् अपाम् असि ॥
सर्वाष् टीकाः ...{Loading}...
०४ यं त्वम् अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
यं त्वम् अग्ने समदहस्
तम् उ निर् वापया पुनः ।
कियांबुवत्र रोहतु
शाण्डदूर्वा व्यल्कशा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं त्वम् अग्ने समदहस्
तम् उ निर् वापया पुनः ।
कियांबुवत्र रोहतु
शाण्डदूर्वा व्यल्कशा ॥
सर्वाष् टीकाः ...{Loading}...
०५ इदं त एकम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं त एकं पर उ त एकं
तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्वश् चारुर् एधि
प्रियो देवानां परमे सधस्थे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं त एकं पर उ त एकं
तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्वश् चारुर् एधि
प्रियो देवानां परमे सधस्थे ॥
सर्वाष् टीकाः ...{Loading}...
०६ उत् तिष्ठ प्रेहि
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तिष्ठ प्रेहि प्र द्रव-
-ओकः कृणुष्व सलिले सधस्थे ।
तत्र त्वं पितृभिः संविदानः
सं सोमेन मदस्व सं स्वधाभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तिष्ठ प्रेहि प्र द्रव-
-ओकः कृणुष्व सलिले सधस्थे ।
तत्र त्वं पितृभिः संविदानः
सं सोमेन मदस्व सं स्वधाभिः ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्र च्यवस्व तन्वः
विश्वास-प्रस्तुतिः ...{Loading}...
प्र च्यवस्व तन्वः सं भरस्व
मा ते गात्रं वि हायि मो शरीरम् ।
मनो निविष्टमम् अनु सं प्र विशस्व
यत्र भूमेर् जुषसे तत्र गच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र च्यवस्व तन्वः सं भरस्व
मा ते गात्रं वि हायि मो शरीरम् ।
मनो निविष्टमम् अनु सं प्र विशस्व
यत्र भूमेर् जुषसे तत्र गच्छ ॥
सर्वाष् टीकाः ...{Loading}...
०८ वर्चसा मां पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चसा मां पितरः सोम्यासो
अञ्जन्तु देवा मध्वा घृतेन ।
चक्षुषो मा प्रतरं तारयन्तो
जरसे मा जरदष्टिं वर्धयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चसा मां पितरः सोम्यासो
अञ्जन्तु देवा मध्वा घृतेन ।
चक्षुषो मा प्रतरं तारयन्तो
जरसे मा जरदष्टिं वर्धयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०९ वर्चसा मां सम्
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चसा मां सम् अनक्त्य् अग्निर्
मेधां मे विष्णुर् न्य् अनक्त्य् आसनि । (Bhatt. meṃ)
रयिं मे विश्वे नि यच्छन्तु देवाः
शुद्धा आपः पवनैर् मा पूनन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चसा मां सम् अनक्त्य् अग्निर्
मेधां मे विष्णुर् न्य् अनक्त्य् आसनि । (Bhatt. meṃ)
रयिं मे विश्वे नि यच्छन्तु देवाः
शुद्धा आपः पवनैर् मा पूनन्तु ॥
सर्वाष् टीकाः ...{Loading}...
१० मित्रावरुणा परि माम्
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रावरुणा परि माम् अधाताम्
आदित्या मा स्वरवो वर्धयन्तु ।
वर्चो म इन्द्रो न्य् अनक्तु हस्तयोर्
जरदष्टिं मा सविता कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मित्रावरुणा परि माम् अधाताम्
आदित्या मा स्वरवो वर्धयन्तु ।
वर्चो म इन्द्रो न्य् अनक्तु हस्तयोर्
जरदष्टिं मा सविता कृणोतु ॥