सर्वाष् टीकाः ...{Loading}...
०१ इदम् इद् वा
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् इद् वा उ नापरं
जरसीत उतापरम् ।
जाया पतिम् इव वाससा-
-अभ्य् एनं भूम ऊर्णुहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् इद् वा उ नापरं
जरसीत उतापरम् ।
जाया पतिम् इव वाससा-
-अभ्य् एनं भूम ऊर्णुहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभि त्वोर्णोमि पृथिव्या
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वोर्णोमि पृथिव्या
मातुर् वस्त्रेण भद्रया ।
जीवेषु भद्रं तन् मयि
स्वधा पितृष्व् अमा तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वोर्णोमि पृथिव्या
मातुर् वस्त्रेण भद्रया ।
जीवेषु भद्रं तन् मयि
स्वधा पितृष्व् अमा तव ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्नीषोमा पथिकृता स्योनम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नीषोमा पथिकृता स्योनं
देवेभ्यो रत्नं दधतुर् वि लोकम् ।
उप प्रेष्यतां पूषणं यो जहात्य्
अक्तो यानैः पथिभिस् तत्र गच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नीषोमा पथिकृता स्योनं
देवेभ्यो रत्नं दधतुर् वि लोकम् ।
उप प्रेष्यतां पूषणं यो जहात्य्
अक्तो यानैः पथिभिस् तत्र गच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ पूषा त्वेतश् च्यावयतु
विश्वास-प्रस्तुतिः ...{Loading}...
पूषा त्वेतश् च्यावयतु प्र विद्वान्
अनष्टपशुर् भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत् पितृभ्यो (Bhatt. dada(t))
अग्निर् देवेभ्यः सुविदत्र्येभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूषा त्वेतश् च्यावयतु प्र विद्वान्
अनष्टपशुर् भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत् पितृभ्यो (Bhatt. dada(t))
अग्निर् देवेभ्यः सुविदत्र्येभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०५ आयुर् विश्वायुः परि
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर् विश्वायुः परि पातु त्वा
पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र ते ययुस्
तत्र त्वा देवः सविता दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर् विश्वायुः परि पातु त्वा
पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र ते ययुस्
तत्र त्वा देवः सविता दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०६ इदं त्वा वासः
विश्वास-प्रस्तुतिः ...{Loading}...
इदं त्वा वासः प्रथमं न आगन्न् (Bhatt. āgant (misprint?))
अपैतद् ऊह यद् इहाबिभः पुरा ।
इष्टापूर्तम् अनु सं क्राम विद्वान्
यत्र ते गच्छं बहुधा तत्र गच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं त्वा वासः प्रथमं न आगन्न् (Bhatt. āgant (misprint?))
अपैतद् ऊह यद् इहाबिभः पुरा ।
इष्टापूर्तम् अनु सं क्राम विद्वान्
यत्र ते गच्छं बहुधा तत्र गच्छ ॥
सर्वाष् टीकाः ...{Loading}...
०७ इमौ युनज्मि ते
विश्वास-प्रस्तुतिः ...{Loading}...
इमौ युनज्मि ते वह्नी
असुनीतये नेतवै ।
ताभ्यां यमस्य सादनं
समितिं चोप गच्छतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमौ युनज्मि ते वह्नी
असुनीतये नेतवै ।
ताभ्यां यमस्य सादनं
समितिं चोप गच्छतात् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अग्नेर् वर्म परि
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नेर् वर्म परि गोभिर् व्ययस्व
सं प्रोर्णुष्व पीवसा मेधसा च ।
नेत् त्वा धृष्णुर् हरसा जर्हृषाणो
दधृग् विधक्ष्यन् न्यङ्खयातै ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नेर् वर्म परि गोभिर् व्ययस्व
सं प्रोर्णुष्व पीवसा मेधसा च ।
नेत् त्वा धृष्णुर् हरसा जर्हृषाणो
दधृग् विधक्ष्यन् न्यङ्खयातै ॥
सर्वाष् टीकाः ...{Loading}...
०९ धनुर् हस्ताद् आददानो
विश्वास-प्रस्तुतिः ...{Loading}...
धनुर् हस्ताद् आददानो मृतस्य
सह क्षत्रेण वर्चसा बलेन । (Bhatt. saṃ ha … valena)
अत्रैव त्वम् इह वयं सुवीरा
विश्वा मृधो अभिमतीर् जयेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
धनुर् हस्ताद् आददानो मृतस्य
सह क्षत्रेण वर्चसा बलेन । (Bhatt. saṃ ha … valena)
अत्रैव त्वम् इह वयं सुवीरा
विश्वा मृधो अभिमतीर् जयेम ॥
सर्वाष् टीकाः ...{Loading}...
१० दण्डं हस्ताद् आददानो
विश्वास-प्रस्तुतिः ...{Loading}...
दण्डं हस्ताद् आददानो मृतस्य
सह श्रोत्रेण वर्चसा बलेन ।
समागृभाय वसु भूरि पुष्टम्
अर्वाङ् त्वम् एह्य् अभि जीवलोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दण्डं हस्ताद् आददानो मृतस्य
सह श्रोत्रेण वर्चसा बलेन ।
समागृभाय वसु भूरि पुष्टम्
अर्वाङ् त्वम् एह्य् अभि जीवलोकम् ॥
सर्वाष् टीकाः ...{Loading}...
११ इयं नारी पतिलोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
इयं नारी पतिलोकं गृणाना
नि पद्यत उप त्वा मर्त्य प्रेतम् ।
धर्मं पुराणम् अनुपालयन्ती
तस्यै प्रजां द्रविणं चेह धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं नारी पतिलोकं गृणाना
नि पद्यत उप त्वा मर्त्य प्रेतम् ।
धर्मं पुराणम् अनुपालयन्ती
तस्यै प्रजां द्रविणं चेह धेहि ॥
सर्वाष् टीकाः ...{Loading}...
१२ उद् ईर्ष्वा नार्य्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् ईर्ष्वा नार्य् अभि जीवलोकं
गातासुम् एनं तम् उप शेष एहि ।
हस्तग्राभस्य दधिषोस् तवेदं
पत्युर् जनित्वम् अभि सं बभूविथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् ईर्ष्वा नार्य् अभि जीवलोकं
गातासुम् एनं तम् उप शेष एहि ।
हस्तग्राभस्य दधिषोस् तवेदं
पत्युर् जनित्वम् अभि सं बभूविथ ॥