०६७

सर्वाष् टीकाः ...{Loading}...

०१ प्रेमां मात्रां मिमीमहे

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेमां मात्रां मिमीमहे
यथापरं न मासातै । +++(Bhatt. māsatai*)+++
शते शरत्सु नो पुरा ॥

०२ उद् इमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् इमाम् (…) ॥ +++(see 1abc)+++

०३ अपेमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपेमम् (…) ॥ +++(see 1abc)+++

०४ निर् इमां मात्राम्

विश्वास-प्रस्तुतिः ...{Loading}...

निर् इमां मात्रां मिमीमहे
यथा (…) ॥ +++(see 1bc)+++

०५ अमासि मात्रां स्वर्

विश्वास-प्रस्तुतिः ...{Loading}...

अमासि मात्रां स्वर् अगाम् +++(Bhatt. mātrāṅ)+++
आयुष्मान् भूयासम् ।
यथापरं न मासातै । +++(Bhatt. māsatai*)+++
शते शरत्सु नो पुरा ॥

०६ प्राणो अपान उत

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणो अपान उत वा व्यान
आयुश् चक्षुर् दृशे सूर्याय ।
अपरिपरेण पथा +++(Bhatt. yathā)+++
यमराज्ञः पितॄन् गच्छ ॥

०७ ये नः पितुः

विश्वास-प्रस्तुतिः ...{Loading}...

ये नः पितुः पितरो ये पितामहा
य आविविशुर् उर्व् अन्तरिक्षम् ।
य आक्षीयन्ति पृथिवीम् उत द्यां
तेभ्यः पितृभ्यो नमसा विधेम ॥

०८ ये अग्रवः शशमानाः

विश्वास-प्रस्तुतिः ...{Loading}...

ये अग्रवः शशमानाः परेषु
हित्वा द्वेषांस्य् अनपत्यवन्तः ।
ते द्याम् उदित्याविदन्त लोकं
नाकस पृष्ठे अदि दीध्यानाः ॥

०९ उदन्वती द्यौर् अवमा

विश्वास-प्रस्तुतिः ...{Loading}...

उदन्वती द्यौर् अवमा
पीलूमतीति मध्यमा ।
तृतीया ह प्रद्यौर् इति
यस्यां पितर आसते ॥

१० इदम् इद् वा

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् इद् वा उत्तमं
दिवि पश्यति सूर्यम् ।
मात्रा पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥ भत्त्। एमं]