०६६

सर्वाष् टीकाः ...{Loading}...

०१ ये दस्यवः पितृषु

विश्वास-प्रस्तुतिः ...{Loading}...

ये दस्यवः पितृषु प्रविष्टा
ज्ञातिमुखा अहुतादश् चरन्ति ।
परापुरो निपुरो ये चरन्ति
तान् अस्माद् यज्ञात् प्र धमन्तु देवाः ॥

०२ सं विशन्त्व् इह

विश्वास-प्रस्तुतिः ...{Loading}...

सं विशन्त्व् इह पितरः स्वा नः
स्योनं कृण्वन्तु प्रतिरन्त आयुः ।
तेभ्यः शकेम हविषा यक्षमाणा
ज्योग् जीवन्तः शरदः पुरूचीः ॥

०३ यां ते धेनुम्

विश्वास-प्रस्तुतिः ...{Loading}...

यां ते धेनुं निगृणामि
यं वा ते क्षीर ओदनम् ।
तेना जनस्यासौ भर्ता
यो ऽत्रासद् अजीवनः ॥

०४ अश्वावतीं प्र तर

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वावतीं प्र तर या सुशेवा
ऋक्षीकां वा प्रतरं नवीयः ।
यस् त्वा जघान वध्यः सो अस्तु
मा सो अन्यद् विदत भागधेयम् ॥

०५ यमः परस्ताद् अवरो

विश्वास-प्रस्तुतिः ...{Loading}...

यमः परस्ताद् अवरो विवस्वान्
ततः परो नाति पश्याम्य् अन्यत् ।
यमे अध्वरो अधि मे निविष्टो
भुवे विवस्वान् अन्वाततान ॥

०६ अपागूहन्न् अमृतां मर्त्येभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

अपागूहन्न् अमृतां मर्त्येभ्यः
कृत्वी सुपर्णाम् अदधुर् विवस्वते ।
उताश्विनाव् अभरद् यत् तद् आसीद्
अजहाद् उ द्वा मिथुना सरण्यूः ॥

०७ ये निखाता ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये निखाता ये परोप्ता
ये दग्धा ये चोद्धिताः ।
सर्वांस् तान् अग्न आ वह
पितॄन् हविषे अत्तवे ॥

०८ ये चेह पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

ये चेह पितरो ये चेह न
यांश् च विद्म याँ उ च न प्रविद्म ।
त्वं वेत्थ यदि ते जातवेदः
स्वधाभिर् यज्ञं सुकृतं जुषन्ताम् ॥

०९ शं तप माति

विश्वास-प्रस्तुतिः ...{Loading}...

शं तप माति तपो
अग्ने मा तन्वं तपः ।
वनेषु शुष्मो अस्तु ते
पृथिव्याम् अस्तु यद् धरः ॥

१० ददाम्य् अस्मा अवसानम्

विश्वास-प्रस्तुतिः ...{Loading}...

ददाम्य् अस्मा अवसानम् एतद्
य एष आगन् मम चेद् अभूद् इह ।
यमश् चिकित्वान् प्रत्य् एतद् आह
ममैष राय उप तिष्ठताम् इह ॥