०६५

सर्वाष् टीकाः ...{Loading}...

०१ ये युध्यन्ते प्रधनेषु

विश्वास-प्रस्तुतिः ...{Loading}...

ये युध्यन्ते प्रधनेषु
शूरासो ये तनूत्यजः ।
ये वा सहस्रदक्षिणास्
तंश् चिद् एवापि गच्छतात् ॥

०२ स्योनास्मै पृथिवी भव

विश्वास-प्रस्तुतिः ...{Loading}...

स्योनास्मै पृथिवी भव-
-अनृक्षरा निवेशिनी ।
यच्छास्मै शर्म सप्रथाः ॥ +++(Bhatt. saprathā(ḥ))+++

०३ असम्बाधे पृथिव्या उरौ

विश्वास-प्रस्तुतिः ...{Loading}...

असंबाधे पृथिव्या +++(Bhatt. -vādhe)+++
उरौ लोके महीयते ।
स्वधा याश् चकृषे जीवं
तास् ते सन्तु मधुश्चुतः ॥

०४ ह्वयामि ते नमसा

विश्वास-प्रस्तुतिः ...{Loading}...

ह्वयामि ते नमसा म
इमं गृहम् उप जुजुषाण एहि ।
सं गच्छस्व पितृभिर् यच् च दत्तं
स्योनास् त्वा वाता उप वान्तु शग्माः ॥

०५ आ त्वा वहन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा वहन्तु मरुत
उदवाहा उदप्लुतः ।
अजेन कृण्वन्तः शीतं
वर्षेणो यन्तु बाल् इति ॥

०६ उद् अह्वम् आयुर्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अह्वम् आयुर् आयुषे
क्रत्वे दक्षाय जीवसे ।
स्वाङ् गच्छतु ते मनो
अधा पितॄन् अपि द्रव ॥

०७ मा ते मनो

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते मनो मासुर्
अङ्गानां मा रमश् च ते ।
मा ते हास्त तन्वः किं चनेह ॥

०८ मा वृक्षः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा वृक्षः सं बाधिष्ट
मा देवी पृथिवी मही ।
लोकं पितृषु वित्त्वा-
-एधस्व यमराजसु ॥

०९ यत् ते अङ्गम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते अङ्गं विनिहितं पराचैर्
अपानः प्राणो य उ ते परेतः ।
यत् ते संगत्य पितरः सनीडा
घासे घासम् आ सादयन्तु ॥

१० अपेमं जीवा अरुधन्

विश्वास-प्रस्तुतिः ...{Loading}...

अपेमं जीवा अरुधन् गृहेभ्यस्
तं निर् ऊहत परि ग्रामाद् इतः ।
मृत्यो यमस्यासि दूतः प्रचेता
असून् पितृभ्यो गमयां चकर्थ ॥