सर्वाष् टीकाः ...{Loading}...
०१ अजो भागस् तपसस्
विश्वास-प्रस्तुतिः ...{Loading}...
अजो भागस् तपसस् तं तपस्व
तं ते शोचिस् तपतु तं ते अर्चिः ।
यास् ते शिवास् तन्वो जातवेदस्
ताभिर् वहैनं सुकृताम् उलोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अजो भागस् तपसस् तं तपस्व
तं ते शोचिस् तपतु तं ते अर्चिः ।
यास् ते शिवास् तन्वो जातवेदस्
ताभिर् वहैनं सुकृताम् उलोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यास् ते शोचयो
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते शोचयो रंहयो जातवेदस्
तन्वः क्रूराः परीङ्खयन्ते ।
अजं यन्तम् अनु तास् ते सम् ऋण्वताम्
अथेतराभिः शिवतमाभिः शृतं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते शोचयो रंहयो जातवेदस्
तन्वः क्रूराः परीङ्खयन्ते ।
अजं यन्तम् अनु तास् ते सम् ऋण्वताम्
अथेतराभिः शिवतमाभिः शृतं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०३ अव सृज पुनर्
विश्वास-प्रस्तुतिः ...{Loading}...
अव सृज पुनर् अग्ने पितृभ्यो
यस् त आहुतश् चरति स्वधाभिः ।
आयुर् वसान उप यातु शेषः
सं गच्छतां तन्वा सुवर्चाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अव सृज पुनर् अग्ने पितृभ्यो
यस् त आहुतश् चरति स्वधाभिः ।
आयुर् वसान उप यातु शेषः
सं गच्छतां तन्वा सुवर्चाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अति द्रव सारमेयौ
विश्वास-प्रस्तुतिः ...{Loading}...
अति द्रव सारमेयौ श्वानौ
चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन् सुविदत्राꣳ उपेहि
यमेन ये सधमादं मदन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अति द्रव सारमेयौ श्वानौ
चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन् सुविदत्राꣳ उपेहि
यमेन ये सधमादं मदन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०५ यौ ते श्वानौ
विश्वास-प्रस्तुतिः ...{Loading}...
यौ ते श्वानौ यम रक्षितारौ
चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्याम् एनं परि धेहि राजन्
स्वस्ति चास्मा अनमीवं च धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यौ ते श्वानौ यम रक्षितारौ
चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्याम् एनं परि धेहि राजन्
स्वस्ति चास्मा अनमीवं च धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ उरूणसाव् इत्य् एका
विश्वास-प्रस्तुतिः ...{Loading}...
उरूणसाव् इत्य् एका ॥ (PS 10.9.10 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
उरूणसाव् इत्य् एका ॥ (PS 10.9.10 is repeated)
सर्वाष् टीकाः ...{Loading}...
०७ सोम एकेभ्यः पवते
विश्वास-प्रस्तुतिः ...{Loading}...
सोम एकेभ्यः पवते
घृतम् एक उपासते ।
येभ्यो मधु प्रजावति
तांश् चिद् एवापि गच्छतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोम एकेभ्यः पवते
घृतम् एक उपासते ।
येभ्यो मधु प्रजावति
तांश् चिद् एवापि गच्छतात् ॥
सर्वाष् टीकाः ...{Loading}...
०८ ये च पूर्व
विश्वास-प्रस्तुतिः ...{Loading}...
ये च पूर्व ऋतसाचा
ऋतजाता ऋतायवः ।
पितॄन् तपस्वतो यम
तपोजाꣳ अपि गच्छतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये च पूर्व ऋतसाचा
ऋतजाता ऋतायवः ।
पितॄन् तपस्वतो यम
तपोजाꣳ अपि गच्छतात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ तपसा ये अनाधृष्यास्
विश्वास-प्रस्तुतिः ...{Loading}...
तपसा ये अनाधृष्यास्
तपसा ये स्वर् ययुः ।
तपो ये चक्रिरे महस्
तांश् चिद् एवापि गच्छतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तपसा ये अनाधृष्यास्
तपसा ये स्वर् ययुः ।
तपो ये चक्रिरे महस्
तांश् चिद् एवापि गच्छतात् ॥
सर्वाष् टीकाः ...{Loading}...
१० सहस्रणीथाः कवयो ये
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्रणीथाः कवयो
ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम
तपोजाꣳ अपि गच्छतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्रणीथाः कवयो
ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम
तपोजाꣳ अपि गच्छतात् ॥