०६३

सर्वाष् टीकाः ...{Loading}...

०१ अङ्गिरसो नः पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गिरसो नः पितरो नवग्वा
अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥

०२ अङ्गिरोभिर् यज्ञियैर् आ

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गिरोभिर् यज्ञियैर् आ गहीह
यम वैरूपैर् इह मादयस्व ।
विवस्वन्तं हुवे यः पिता ते
अस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ (Bhatt. varhiṣy)

०३ इमं यम प्रस्तरम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं यम प्रस्तरम् आ हि सीद-
-अङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्य्
एना राजन् हविषो मादयस्व ॥

०४ यमाय सोमं सुनुत

विश्वास-प्रस्तुतिः ...{Loading}...

यमाय सोमं सुनुत
यमाय जुहुता हविः ।
यमं ह यज्ञो गच्छत्व्
अग्निदूतो अरंकृतः ॥

०५ यमाय घृतवद् धविर्

विश्वास-प्रस्तुतिः ...{Loading}...

यमाय घृतवद् धविर्
जुहोता प्र च तिष्ठत ।
स नो जीवेष्व् आ यमद् (Bhatt. yama(d))
दीर्घम् आयुष् यद् ईयसे ॥

०६ यमाय मधुमत्तमं राज्ञे

विश्वास-प्रस्तुतिः ...{Loading}...

यमाय मधुमत्तमं
राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः
पूर्वेभ्यः पथिकृद्भ्यः ॥

०७ त्रिकद्रुकेभिः पतति षड्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिकद्रुकेभिः पतति
षड् उर्वीर् एकम् इद् बृहत् ।
त्रिष्टुब् गायत्री छन्दांसि
सर्वा ता यम आर्पिता ॥

०८ मैनम् अग्ने वि

विश्वास-प्रस्तुतिः ...{Loading}...

मैनम् अग्ने वि दहो मा वि शोचो
मास्य त्वचं चक्षुषो मा शरीरम् ।
यदा शृतं कृणवो जातवेदो
ऽथेम् एनं प्र हिणुतात् पितृभ्यः ॥

०९ शृतं यदा करसि

विश्वास-प्रस्तुतिः ...{Loading}...

शृतं यदा करसि जातवेदो
ऽथेम् एनं परि दत्तात् पितृभ्यः ।
यदा गच्छात्य् असुनीतिम् एषो
ऽथा देवानां वशनीर् भवाति ॥

१० सूर्यं चक्षुर् गच्छतु

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यं चक्षुर् गच्छतु
वातम् आत्मा दिवं च गच्छ
पृथिवीं च धर्मणा ।
अपो वा गच्छ यदि तत्र ते हितम्
ओषधीषु प्रति तिष्ठा शरीरैः ॥