०६२

सर्वाष् टीकाः ...{Loading}...

०१ बर्हिषदः पितर ऊत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

बर्हिषदः पितर ऊत्य् अर्वाग्
इमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेन-
-अथा नः शं योर् अरपो दधात ॥

०२ आच्या जानु दक्षिणतो

विश्वास-प्रस्तुतिः ...{Loading}...

आच्या जानु दक्षिणतो निषद्य-
-इमं यज्ञम् अभि गृणीत विश्वे ।
मा हिंसिष्ट पितरः केन चिन् नो
यद् व आगः पुरुषता कराम ॥

०३ त्वष्टा दुहित्रे वहतुम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा दुहित्रे वहतुं कृणोति-
-इदं विश्वं भुवनं सम् एति ।
यमस्य माता पर्युह्यमाणा
महो जाया विवस्वतो ननाश ॥

०४ प्रेहि प्रेहि पथिभिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेहि प्रेहि पथिभिः पूर्वेभिर्
यत्रा ते पूर्वे पितरः परेताः ।
उभा राजाना स्वधया मदन्ता
यमं पश्यासि वरुणं च देवम् ॥

०५ अपेत वीत वि

विश्वास-प्रस्तुतिः ...{Loading}...

अपेत वीत वि च सर्पतातो
ऽस्म एतं पितरो लोकम् अक्रन् ।
अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं +++(Bhatt. a(ho)bhir)+++
यमो ददात्य् अवसानम् अस्मै ॥

०६ उशन्तस् त्वा नि

विश्वास-प्रस्तुतिः ...{Loading}...

उशन्तस् त्वा नि धीमह्य्
उशन्तः सम् इधीमहि ।
उशन्न् उशत आ वह
पितॄन् हविषे अत्तवे ॥

०७ द्युमन्तस् त्वा नि

विश्वास-प्रस्तुतिः ...{Loading}...

द्युमन्तस् त्वा नि धीमहि
द्युमन्तः सम् इधीमहि ।
द्युमान् द्युमत आ वह
पितॄन् हविषे अत्तवे ॥