०५९

सर्वाष् टीकाः ...{Loading}...

०१ अध त्यं द्रप्सम्

विश्वास-प्रस्तुतिः ...{Loading}...

अध त्यं द्रप्सं विभवं विचक्षणं
द्विर् आभरद् विषितः श्येनो अध्वरे ।
यदि विशो वृणते दस्मम् आर्या
अग्निं होतारम् अध धीर् अजायत ॥

०२ सदासि रण्वो यवसेव

विश्वास-प्रस्तुतिः ...{Loading}...

सदासि रण्वो यवसेव पुष्यते
होत्राभिर् अग्ने मनुषः स्वध्वरः । (Bhatt. manuṣa(ḥ))
विप्रस्य वा यच् छशमान उक्थ्यं
वाजं शस्यवाꣳ उपयाहि भूरिभिः ॥

०३ उद् ईरय पितरा

विश्वास-प्रस्तुतिः ...{Loading}...

उद् ईरय पितरा जार आभिशम्
इयक्षति हर्यतो हृत्त इष्यति ।
विवक्ति वह्निः स्वपस्यते मखस्
तविष्यते असुरो वेपते मतीन् ॥

०४ यस् ते अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते अग्ने सुमतिं मर्त्यो अक्षत
सहसः सूनो ऽति स प्र शृण्वे ।
इषं दधानो वहमानो अश्वैर्
आ स द्युमाꣳ अमवान् भूषति द्यून् ॥

०५ श्रुधी नो अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुधी नो अग्ने सदने सधस्थे
युक्ष्यु रथम् अमृतस्य द्रवित्नुम् । (Bhatt. dravitnu(m))
आ नो वह रोदसी वेदपुत्रे
माकिर् देवानाम् अप भूर् इह स्याः ॥

०६ यद् अग्न एषा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अग्न एषा समितिर् भवाति
देवी देवेषु यजता यजत्र ।
रत्ना च यद् वि भजासि स्वधावो
भागं नो अत्र वसुमन्तं वीतात् ॥

०७ प्रत्य् अग्निर् उषसाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्य् अग्निर् उषसाम् अग्रम् अख्यत्
प्रत्य् अहानि प्रथमो जातवेदाः ।
प्रति सूर्यस्य पुरुत्रा च रश्मीन्
प्रति द्यावापृथिवी आ ततान ॥

०८ अन्व् अग्निर् उषसाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् अग्निर् उषसाम् अग्रम् अख्यद्
अन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीन्
अनु द्यावापृथिवी आ ततान ॥

०९ द्यावा ह क्षामा

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा ह क्षामा प्रथमे ऋतेन-
-अभिस्रावे भवतः प्रत्यवाचाः ।
देवो यन् मर्तान् यतथाय कृण्वन् (Bhatt. marttāṃ)
सीदद् धोता प्रत्यङ् स्वम् असून् ॥

१० देवो देवान् परिभूर्

विश्वास-प्रस्तुतिः ...{Loading}...

देवो देवान् परिभूर् ऋतेन
वहा नो हव्यं प्रथमश् चिकित्वान् ।
धूमकेतुः समिधा भाऋजीको
मन्द्रो होता नित्यो वाचा यजीयान् ॥