०५८

सर्वाष् टीकाः ...{Loading}...

०१ आ घा ता

विश्वास-प्रस्तुतिः ...{Loading}...

आ घा ता गच्छान् उत्तरा युगानि
यत्र जामयः कृणवन्न् अजामि ।
उप बर्बृहि वृषभाय बाहुम्
अन्यम् इच्छस्व सुभगे पतिं मत् ॥

०२ किं भ्रातासद् यद्

विश्वास-प्रस्तुतिः ...{Loading}...

किं भ्रातासद् यद् अनाथं भवाति
किम् उ स्वसा यन् निरृतिर् निगच्छात् ।
काममूता बह्व् एतद् रपामि (Bhatt. vahv)
तन्वा मे तन्वं सं पिपृग्धि ॥

०३ न वा उ

विश्वास-प्रस्तुतिः ...{Loading}...

न वा उ ते तन्वा तन्वं सं पपृच्यां
पापम् आहुर् यः स्वसारं निगच्छात् ।
अन्येन मत् तः प्रमुदः कल्पयस्व
न ते भ्राता सुभगे वष्ट्य् एतत् ॥

०४ न ते नाथम्

विश्वास-प्रस्तुतिः ...{Loading}...

न ते नाथं यम्य् अत्राहम् अस्मि
न ते नूनं तन्वा सं पपृच्याम् ।
असंयद् एतन् मनसो हृदो मे
भ्राता स्वसुः शयने यच् छयीय ॥

०५ बतो बतासि यम

विश्वास-प्रस्तुतिः ...{Loading}...

बतो बतासि यम
नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्षेव युक्तं
परि ष्वजाते लिबुजेव वृक्षम् ॥

०६ तस्य वा त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य वा त्वं मन इच्छ स वा तव-
-अधा कृणुस्व संविदं सुभद्राम् ॥

०७ त्रीणि छन्दांसि कवयो

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि छन्दांसि कवयो वि चेतिरे
पुरुरूपं दर्शतं विश्वचक्षणम् ।
वाता आप ओषधयस्
तान्य् एकस्मिन् भुवन आर्पितानि ॥

०८ वृषा वृष्णे दुदुहे

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा वृष्णे दुदुहे दोहसा दिवः
पयांसि यह्वो अदितेर् अदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया
स यज्ञियो यजति यज्ञियाꣳ ऋतून् ॥

०९ रपद् गन्धर्वीर् अप्या

विश्वास-प्रस्तुतिः ...{Loading}...

रपद् गन्धर्वीर् अप्या च योषणा
नदस्य नादे परि पातु नो मनः ।
इष्टस्य मध्ये अदितिर् नु पातु नो
भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥

१० सो चिन् नु

विश्वास-प्रस्तुतिः ...{Loading}...

सो चिन् नु भद्रा क्षुमति यशस्वत्य्
उषा उवास मनवे स्वर्वती ।
यद् ईम् उशन्तम् उशताम् अनु क्रतुम्
अग्निं होतारं विदथाय जीजनन् ॥