सर्वाष् टीकाः ...{Loading}...
०१ सप्तभिः पराङ् तपस्य्
विश्वास-प्रस्तुतिः ...{Loading}...
सप्तभिः पराङ् तपस्य् एकयार्वाङ्
अशस्तिम् एषि सुदिने बाधमानः ।
त्वं तृतं त्वं पर्य् एष्वित्सं (ŚS eṣy útsam)
सहस्रधारं वितथं स्वर्विदं (ŚS vidáthaṃ)
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्तभिः पराङ् तपस्य् एकयार्वाङ्
अशस्तिम् एषि सुदिने बाधमानः ।
त्वं तृतं त्वं पर्य् एष्वित्सं (ŚS eṣy útsam)
सहस्रधारं वितथं स्वर्विदं (ŚS vidáthaṃ)
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्वम् इन्द्रस् त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् इन्द्रस् त्वं महेन्द्रंस्
त्वं विष्णुस् त्वं प्रजापतिः ।
तुभ्यं यज्ञो वि तायते
तुभ्यं जुह्वति जुह्वतस्
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् इन्द्रस् त्वं महेन्द्रंस्
त्वं विष्णुस् त्वं प्रजापतिः ।
तुभ्यं यज्ञो वि तायते
तुभ्यं जुह्वति जुह्वतस्
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
०३ असति सत् प्रतिष्ठितम्
विश्वास-प्रस्तुतिः ...{Loading}...
असति सत् प्रतिष्ठितं
सति भूतं प्रतिष्ठितम् ।
भूतं ह भव्य आहितं
भव्यं भूते समाहितं
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
असति सत् प्रतिष्ठितं
सति भूतं प्रतिष्ठितम् ।
भूतं ह भव्य आहितं
भव्यं भूते समाहितं
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ शुक्रो ऽसि भ्राजो
विश्वास-प्रस्तुतिः ...{Loading}...
शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजो ऽस्य्
एवाहं भ्राजतो भ्राज्यासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजो ऽस्य्
एवाहं भ्राजतो भ्राज्यासम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ रुचिर् असि रोचो
विश्वास-प्रस्तुतिः ...{Loading}...
रुचिर् असि रोचो ऽसि ।
स यथा त्वं रुच्या रोचो ऽस्य्
एवाहं प्रजया पशुभिर्
ब्राह्मणवर्चसेन रोचिषीय ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुचिर् असि रोचो ऽसि ।
स यथा त्वं रुच्या रोचो ऽस्य्
एवाहं प्रजया पशुभिर्
ब्राह्मणवर्चसेन रोचिषीय ॥
सर्वाष् टीकाः ...{Loading}...
०६ उद्यते नम उदायते
विश्वास-प्रस्तुतिः ...{Loading}...
उद्यते नम उदायते नम उदिताय नमः ।
विराजे नमः स्वराजे नमः सम्राजे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद्यते नम उदायते नम उदिताय नमः ।
विराजे नमः स्वराजे नमः सम्राजे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अस्तंयते नमो ऽस्तमेष्यते
विश्वास-प्रस्तुतिः ...{Loading}...
अस्तंयते नमो ऽस्तमेष्यते नमो ऽस्तमिताय नमः ।
विराजे नमः स्वराजे नमः सम्राजे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्तंयते नमो ऽस्तमेष्यते नमो ऽस्तमिताय नमः ।
विराजे नमः स्वराजे नमः सम्राजे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०८ आदित्य नावम् आरुक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्य नावम् आरुक्षं
शतारित्रां स्वस्तये ।
अहर् नो अद्य पीपरद्
रात्री सत्राति पारयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदित्य नावम् आरुक्षं
शतारित्रां स्वस्तये ।
अहर् नो अद्य पीपरद्
रात्री सत्राति पारयात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ सूर्य नावम् आरुक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य नावम् आरुक्षं
शतारित्रां स्वस्तये ।
रात्री नो अद्य पीपरद्
अहः सत्राति पारयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्य नावम् आरुक्षं
शतारित्रां स्वस्तये ।
रात्री नो अद्य पीपरद्
अहः सत्राति पारयात् ॥
सर्वाष् टीकाः ...{Loading}...
१० प्रजापतेर् आवृतो ब्रह्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतेर् आवृतो ब्रह्मणा वर्मणाहं
कश्यपस्य ज्योतिषा वर्चसा च । (Bhatt. va । (misprint))
जरदष्टिः कृतवीर्यो विहायाः
सहस्रायुः सुकृतश् चरेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतेर् आवृतो ब्रह्मणा वर्मणाहं
कश्यपस्य ज्योतिषा वर्चसा च । (Bhatt. va । (misprint))
जरदष्टिः कृतवीर्यो विहायाः
सहस्रायुः सुकृतश् चरेयम् ॥
सर्वाष् टीकाः ...{Loading}...
११ ऋतेन गुप्त ऋतुभिश्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतेन गुप्त ऋतुभिश् च सर्वैर्
भूतेन गुप्त उत भव्येन चाहम् ।
मा मा प्रापन्न् इषवो दैव्या या
मा मानुषीर् अवसृष्टा वधाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतेन गुप्त ऋतुभिश् च सर्वैर्
भूतेन गुप्त उत भव्येन चाहम् ।
मा मा प्रापन्न् इषवो दैव्या या
मा मानुषीर् अवसृष्टा वधाय ॥
सर्वाष् टीकाः ...{Loading}...
१२ परिवृतो ब्रह्मणा वर्मणाहम्
विश्वास-प्रस्तुतिः ...{Loading}...
परिवृतो ब्रह्मणा वर्मणाहं
कश्यपस्य ज्योतिषा वर्चसा च ।
मा मा प्रापत् पाप्मा मोत मृत्युर्
अन्तर् दधे सलिलेन वाचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परिवृतो ब्रह्मणा वर्मणाहं
कश्यपस्य ज्योतिषा वर्चसा च ।
मा मा प्रापत् पाप्मा मोत मृत्युर्
अन्तर् दधे सलिलेन वाचः ॥
सर्वाष् टीकाः ...{Loading}...
१३ अग्निर् मा गोपाः
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् मा गोपाः परि पातु विश्वतो
व्युच्छन्तीर् उषसः पर्वता ध्रुवा ।
उद्यन् सूर्यो नुदतां मृत्युपाशान्
सहस्रं प्राणा मयि ते रमन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् मा गोपाः परि पातु विश्वतो
व्युच्छन्तीर् उषसः पर्वता ध्रुवा ।
उद्यन् सूर्यो नुदतां मृत्युपाशान्
सहस्रं प्राणा मयि ते रमन्ताम् ॥