०५०

सर्वाष् टीकाः ...{Loading}...

०१ अजैष्माद्यासनामाद्याभूमानागसो वयम् उषो

विश्वास-प्रस्तुतिः ...{Loading}...

अजैष्माद्यासनामाद्याभूमानागसो वयम् ।
उषो यस्माद् दुष्वप्न्याद् अभैष्माप तद् उच्छ ।
द्विषते तत् परा वह शपते तत् परा वह ।
यं द्विष्मो यश् च नो द्वेष्टि तस्मा एनद् गमयामः ।
उषा देवी वाचा संविदाना वाग् देवी उषसा संविदाना ।
उषस्पतिर् वाचस्पतिना संविदानो वाचस्पतिर् उषस्पतिना संविदाना ।
ते ऽमुष्मै परा वहन्त्व् अरायान् दुर्णाम्नाः सदान्वा रक्षांसि ।
कुम्भीका दूषीकाः पीयकान् ।
जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ।
अनागमिष्यतो वरान् अवित्तेः ।
संकल्पान् अमुच्या द्रुहः पाशात् ।
तद् अमुष्याग्ने परा वहन्तु देवा
वध्रिर् यथासद् विथुरो न साधुः ।
तद् अस्मै गमयाम इति ॥