०४८

सर्वाष् टीकाः ...{Loading}...

०१ सुभूर् असि रश्मिर्

विश्वास-प्रस्तुतिः ...{Loading}...

सुभूर् असि रश्मिर् अस्य् आयुर्धा अस्य् आयुर् मयि धेहि ।
(सुभूर् असि रश्मिर्) असि वर्चोधा असि वर्चो मयि धेहि ॥

०२ सुभूर् असि रश्मिर्

विश्वास-प्रस्तुतिः ...{Loading}...

सुभूर् असि रश्मिर् असि तेजोधा असि तेजो मयि धेहि ॥

०३ सूर्यो मे वर्चोधा

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो मे वर्चोधा वर्चो दधात्व्
इन्द्रियम् असीन्द्रियं मयि धेहि
वर्चो असि वर्चो मयि धेहि ॥

०४ शक्वरी स्थ पशवो

विश्वास-प्रस्तुतिः ...{Loading}...

शक्वरी स्थ पशवो मोप स्थेषुर्
मित्रावरुणा मे प्राणापानाव्
अग्निर् मे दक्षं दधातु ॥