सर्वाष् टीकाः ...{Loading}...
०१ रुजश् च मा
विश्वास-प्रस्तुतिः ...{Loading}...
रुजश् च मा वेनश् च मा हासिष्टाम्
उर्वश् च मा चमसश् च मा हासिष्टां
विमोकश् च मार्द्रपविश् च मा हासिष्टाम्
आर्द्रदानुश् च मा मातरिश्वा च मा हासिष्टां
मूर्धा च मा विधर्मा च मा हासिष्टां
धर्ता च मा धरुणश् च मा हासिष्टां
मृधश् च मा वैमृधश् च मा हासिष्टाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुजश् च मा वेनश् च मा हासिष्टाम्
उर्वश् च मा चमसश् च मा हासिष्टां
विमोकश् च मार्द्रपविश् च मा हासिष्टाम्
आर्द्रदानुश् च मा मातरिश्वा च मा हासिष्टां
मूर्धा च मा विधर्मा च मा हासिष्टां
धर्ता च मा धरुणश् च मा हासिष्टां
मृधश् च मा वैमृधश् च मा हासिष्टाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ बृहस्पतिर् म आत्मा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिर् म आत्मा नृमणा नाम ।
हृदयाजरसं मा मा हासीर् असंतापं मे हृदयम् अस्तु ।
उर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ।
नाभिर् अहं रयीणां नाभिर् अहं समानानां भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिर् म आत्मा नृमणा नाम ।
हृदयाजरसं मा मा हासीर् असंतापं मे हृदयम् अस्तु ।
उर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ।
नाभिर् अहं रयीणां नाभिर् अहं समानानां भूयासम् ॥