०४५

सर्वाष् टीकाः ...{Loading}...

०१ निर् दुरर्मण्य ऊर्जा

विश्वास-प्रस्तुतिः ...{Loading}...

निर् दुरर्मण्य ऊर्जा मधुमती वाङ् मधुमती स्थ ।
मदुमतीं वाचम् उदेयं वाचो ऽहं मा यवम् ।
अदब्धो मे गोपा अदब्धो गोपीथः ।
सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ।
उपश्रुतिश् च मानुश्रुतिश् च मा हासिष्टां
सौपर्णं चक्षुर् अजस्रं ज्योतिः ।
ऋषीणां प्रस्तरो ऽसि नमो दैवाय प्रस्तराय ।
मूर्धाहं रयीणां मूर्धाहं समानानां भूयासम् ॥