०४४

सर्वाष् टीकाः ...{Loading}...

०१ अतिसृष्टो अपां वृषभो

विश्वास-प्रस्तुतिः ...{Loading}...

अतिसृष्टो अपां वृषभो अतिसृष्टा अग्नयो दिव्याः ।
रुजन् परिरुजन् मृणन् प्रमृणम्
म्रोको मनोहा खनो निर्दाह आत्मदूषिस् तनूदूषिः ॥

०२ इदं तान् अति

विश्वास-प्रस्तुतिः ...{Loading}...

इदं तान् अति सृजामि तान् माभ्य् अव निक्षि ।
तैस् तम् अभ्य् अति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥

०३ अपाम् अग्रम् असि

विश्वास-प्रस्तुतिः ...{Loading}...

अपाम् अग्रम् असि समुद्रं त्वाभ्य् अव सृजामि ।
ये ऽप्स्व् अग्नयो ऽति तान् सृजामि म्रोकं खनिं तनूदूषिम् ।
यो व आपो अग्निर् आविवेश स एष यद् वो घोरं तद् एतत् ॥

०४ इन्द्रस्येन्द्रियेणाभि षिञ्चेद् अरिप्रा

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्येन्द्रियेणाभि षिञ्चेद् अरिप्रा आपो अप रिप्रम् अस्मत् । (Bhatt. ṣiñce riprā)
प्रैनो वहतु प्र दुष्वप्न्यम् ॥

०५ शिवेन मा चक्षुषा

विश्वास-प्रस्तुतिः ...{Loading}...

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वाचं मे ।
शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥