०४३

सर्वाष् टीकाः ...{Loading}...

०१ यो ऽस्य प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽस्य प्रथमो ऽपानः । सा पौर्णमासी ।
यो ऽस्य द्वितीयो ऽपानः । साष्टका ।
यो ऽस्य तृतीयो ऽपानः । सामावास्या ।
यो ऽस्य चतुर्थो ऽपानः । सा श्रद्धा ।
यो ऽस्य पञ्चमो ऽपानः । सा दीक्षा ।
यो ऽस्य षष्ठो ऽपानः । स यज्ञः ।
यो ऽस्य सप्तमो ऽपानः । स वषट्कारः ।
यो ऽस्य प्रथमो व्यानः । सेयं भूमिः ।
यो ऽस्य द्वितीयो व्यानः । तद् अन्तरिक्षम् ।
यो ऽस्य तृतीयो व्यानः । स द्यौः ।
यो ऽस्य चतुर्थो व्यानः । तानि नक्षत्राणि ।
यो ऽस्य पञ्चमो व्यानः । त ऋतवः ।
यो ऽस्य षष्ठो व्यानः । त आर्तवाः ।
यो ऽस्य सप्तमो व्यानः । स संवत्सरः ।
समानं अर्थं परि यन्ति देवा इति
संवत्सरं वावैतद् ऋतवो *ऽनु परि यन्ति ।
यद् आदित्यम् अभि सं विशन्तीति
पौर्णमासीं चैव तद् अमावास्यां चाभि सं विशन्ति ।
तद् एकं रूपम् अमृतत्वम् एषाम् इत्य् आहुतिर् एव ।
रूपंरूपं तपसा वर्धमाना इत्य् अहोरात्रे एव ।
यो ऽस्य दक्षिणः कर्णः सो ऽयम् अग्निर् यः सव्यः सो ऽयं पवमानः ।
यद् अस्य दक्षिणम् अक्षि तद् असाव् आदित्यो यत् सव्यं तद् असौ चन्द्रमाः ।
दितिश् चादितिश् च शीर्षकपाले संवत्सरः शिरो ऽहोरात्रे नासिके ।
रात्र्या पराङ् अह्ना प्रत्यङ् नमो व्रात्याय ॥