०३६

सर्वाष् टीकाः ...{Loading}...

०१ यस्यैवं विद्वान् व्रात्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यैवं विद्वान् व्रात्यो राज्ञो ऽतिथिर् गृहम् आगच्छेत् ।
श्रेयांसम् एनम् आत्मनो मानयेत् तथा राष्ट्राय ना वृश्चते
तथा क्षत्राय ना वृश्चते तथा ब्रह्मणे ना वृश्चते ।
ततो वै ब्रह्म च क्षत्रं चोद् अतिष्ठतां
ते अब्रूतां कं प्र विशावेति ।
ते प्रजापतिर् अब्रवीद् बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् इति ।
ततो वै बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् ।
इयं वाव भूमिर् बृहस्पतिर् असौ द्यौर् इन्द्रः ।
अयं वावाग्निर् ब्रह्मासाव् आदित्यः क्षत्रम् ।
ऐनं क्षत्रं गच्छतीन्द्रयावी भवति य आदित्यं क्षत्रं दिवम् इन्द्रं वेद ।
ऐनं ब्रह्म गच्छति ब्राह्मणवर्चसी भवति
यो ऽग्निं ब्रह्म बृहस्पतिं भूमिं वेद ॥