सर्वाष् टीकाः ...{Loading}...
०१ स ध्रुवान् दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
स ध्रुवान् दिशम् अनु व्य् अचलत् ।
तं भूमिश् चाग्निश् चौषधयश् च वनस्पतयश् च
वीरुधश् च वानस्पत्याश् चानु व्य् अचलन् ।
भूमेश् च वै सो ऽग्नेश् चौषधीनां च वनस्पतिनां च
वीरुधां च वानस्पत्यानां च प्रियं धाम भवति य (एवं वेद) ।
भूमये च वै सो ऽग्नये चौषधिभ्यश् च वनस्पतिभ्यश् च
वीरुद्भ्यश् च वानस्पत्येभ्यश् चा वृश्चते
य एवं विद्वांसं व्रात्यम् उपवदति ॥
मूलम् ...{Loading}...
मूलम् (GR)

०२ स ऊर्ध्वां दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
स ऊर्ध्वां दिशम् (अनु व्य् अचलत्) ।
तम् ऋतं च सत्यं च सूर्यश् च चन्द्रमाश् चानु व्य् अचलन् ।
ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रमासश् च (…) ।
ऋताय च वै स सत्याय च सूर्याय च चन्द्रमासे च (…) ॥ +++(see 1gh)+++

०३ स बृहतीं दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
स बृहतीं दिशं (अनु व्य् अचलत्) ।
तम् ऋचश् च सामानि च यजूंषि च ब्रह्म चानु व्य् अचलन् ।
ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश् च (प्रियं धाम …) ।
ऋग्भ्यश् च वै स सामभ्यश् च यजुर्भ्यश् च ब्रह्मणे च (…) ॥ +++(see 1gh)+++

०४ स उत्तमां दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
स उत्तमां दिशं (अनु व्य् अचलत्) ।
तम् इतिहासश् च पुराणं च गाथाश् च नाराशंसीश्चानु व्य् अचलन् ।
इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च (प्रियं …) ।
इतिहासाय च वै स पुराणाय च गाथाभ्यश् च नाराशंसीभ्यश् च (…) ॥ +++(see 1gh)+++

०५ स परमां दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
स परमां दिशम् अनु व्य् अचलत् ।
तम् ऋतवश् चार्तवाश् च लोकाश् च लौक्याश् चानु व्य् अचलन् ।
ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च प्रियं (धाम …) ।
ऋतुभ्यश् च वै स आर्तवेभ्यश् च लोकेभ्यश् च लौक्यैभ्यश् चा वृश्चते (य …) ॥

०६ सोकद्रीचीं दिशम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
सोकद्रीचीं दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्नमन्यत ।
तं विराड् अनु व्य् अचलत् सर्वे च देवाः सर्वाश् च देवताः ।
विराजे च वै स सर्वेषां देवानां सर्वासां च देवतानां च प्रियं (…) ।
विराजे च वै स सर्वेभ्यश् च देवेभ्यः सर्वाभ्यश् च देवताभ्य आ वृश्चते (य …) ॥

०७ सो ऽनादिष्टां दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
सो ऽनादिष्टां दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्नमन्यत ।
तं दक्षिणाग्निश् च गार्हपत्यश् चाहवनीयश् च यज्ञश् च यजमानश् चानु व्य् अचलन् ।
दक्षिणाग्नेश् च वै स गार्हपत्यस्य चाहवनीयस्य यज्ञस्य यजमानस्य च प्रियं (धाम …) ।
दक्षिणाग्नये च वै स गार्हपत्याय चाहवनीयाय च यज्ञाय च यजमनाय चा वृश्चते (य …) ॥

०८ सो ऽन्तर्देशान् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
सो ऽन्तर्देशान् अनु व्य् अचलत् ।
तं दितिश् चदितिश् चेडा चेन्द्रणी चानु व्य् अचलन् ।
दितेश् च वै सो ऽदितेश् चेडायाश् चेन्द्राण्याश् च (प्रियं …) ।
दितये च वै सो ऽदितये चेडायै चेन्द्रान्यै चा (वृश्चते …) ॥

०९ स दिशो ऽनु
विश्वास-प्रस्तुतिः ...{Loading}...
स दिशो ऽनु व्य् अचलत् ।
तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चानु व्य् अचलन् ।
प्रजापतेश् च वै स परमेष्ठिनश् च पितुश् च पितामहस्य च प्रियं धाम भवति य (एवं …) ।
प्रजापतये च वै स परमेष्ठिने च पित्रे च पितामहाय चा वृश्चते