०३०

सर्वाष् टीकाः ...{Loading}...

०१ तस्मै प्राच्या दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै प्राच्या दिशः ।
वासन्तौ मासौ गोप्ताराव् अकुर्वन् बृहच् च रथन्तरं चानुष्ठातारौ ।
वासन्ताव् एनं मासौ प्राच्या दिशो गोपायतो
बृहच् च रथन्तरं चानुतिष्ठतो य (एवं वेद) ॥

०२ तस्मै दक्षिणाया दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै दक्षिणाया दिशः ।
ग्रैष्मौ मासौ गोप्ताराव् अकुर्वन्
यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
ग्रैष्माव् एनं मासौ दक्षिणाया दिशो गोपायतो
यज्ञायज्ञियं च वामदेव्यं चा(नु …) ॥ (see 1d)

०३ तस्मै प्रतीच्या दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै प्रतीच्या दिशः ।
वार्षिकौ मासौ गोप्ताराव् अकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ ।
वार्षिकाव् एनं मासौ प्रतीच्या दिशो गोपायतो
वैरूपं च वैराजं चा(नु …) ॥ (see 1d)

०४ तस्मा उदीच्या दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा उदीच्या दिशः ।
शरदौ मासौ गोप्ताराव् अकुर्वञ् छ्यैतं च नौधसं चानुष्टातारौ ।
शारदावेनं मासा उदीच्या दिशो गोपायतः
श्यैतं च नैधसं चा(नु …) ॥ (see 1d)

०५ तस्मै ध्रुवाया दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै ध्रुवाया दिशः ।
हैमनौ मासौ गोप्ताराव् अकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ।
हैमनाव् एनं मासौ ध्रुवाया दिशो गोपायतो
भूमिश् चाग्निश् च(नु …) ॥ (see 1d)

०६ तस्मा ऊर्ध्वाया दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा ऊर्ध्वाया दिशः ।
शैशिरौ मासौ गोप्ताराव् अकुर्वन् दिवं चादित्यं चानुष्ठातारौ ।
शैशिराव् एनं मासा ऊर्ध्वाया दिशो गोपायतो
द्यौश् चादित्यश्चानु तिष्ठतो य एवं वेद ॥