०२८

सर्वाष् टीकाः ...{Loading}...

०१ स प्राचीं दिशम्

विश्वास-प्रस्तुतिः ...{Loading}...

स प्राचीं दिशम् अनु व्य् अचलत् ।
तं बृहच् च रथन्तरं च विश्वे च देवा आदित्याश् चानु व्य् अचलन् ।
बृहतश् च वै स रथन्तरस्य च विश्वेषां च देवानाम्
आदित्यानां च प्रियं धाम भवति य एवं वेद ।
बृहते च वै स रथन्तराय च विश्वेभ्यश् च देवेभ्य आदित्येभ्यश् च-
-आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति ॥

०२ तस्य प्राच्यां दिशि

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य प्राच्यां दिशि ।
श्रद्धा पूंश्चली मित्रो मागधो विज्ञानं
वासो ऽहर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः ।
भूतं च भव्यं च परिष्कन्दौ मनो विपथं मातरिश्वा
पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः
कीर्तिश् च यशश् च पुरःसराव् ऐनं कीर्तिर् गच्छत्य्
ऐनं यशो गच्छति य एवं वेद ॥

०३ स दक्षिणां दिशम्

विश्वास-प्रस्तुतिः ...{Loading}...

स दक्षिणां दिशम् अनु व्य् अचलत् ।
तं यज्ञायायज्ञियं च वामदेव्यं च यज्ञश् च पशवश् चानु व्य् अचलन् ।
यज्ञायायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च पशुनां च (…) ।
यज्ञायायज्ञियाय च वै स वामदेव्याय च यज्ञाय च पशुभ्यश् च (…) ॥

०४ तस्य दक्षिणायां दिशि

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य दक्षिणायां दिशि ।
ऊषाः पूंश्चली मन्त्रो मागधो (…) । +++(see 2bc)+++
अहो रात्री च परिष्कन्दौ (…) ॥ +++(see 2d)+++

०५ स प्रतीचीं दिशम्

विश्वास-प्रस्तुतिः ...{Loading}...

स प्रतीचीं दिशं (अनु व्य् अचलत्) ।
तं वैरूपं च वैराजं च वरुणश् च राजा पश्चानु व्य् अचलन् ।
वैरूपस्य च वै स वैराजस्य च वरुणस्य च राज्ञो अपां च (…) ।
वैरूपाय च वै स वैराजाय च वरुणाय च राज्ञेद्भ्यश् च (…) ॥

०६ तस्य प्रतीच्यां दिशि

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य प्रतीच्यां दिशि ।
इराः पुंश्चली हसो मागधो (…) । +++(see 2bc)+++
पौर्णमासी चामावास्या च परिष्कन्दौ (…) ॥ +++(see 2d)+++

०७ स उदीचीं दिशम्

विश्वास-प्रस्तुतिः ...{Loading}...

स उदीचीं दिशम् अनु व्य् अचलत् ।
तं श्यैतं च नौधसं च सोमश् च राजा सप्त ऋषयश् चानु व्य् अचलन् ।
श्यैतस्य च वै स नौधसस्य च सोमस्य च राज्ञः
सप्त ऋषीनां च प्रियं धाम भवति य (एवं वेद) ।
श्यैताय च वै स नौधासाय च सोमाय च राज्ञः
सप्त ऋषिभ्यश् चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति ॥

०८ तस्योदीच्यां दिशि विद्युत्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्योदीच्यां दिशि ।
विद्युत् पुंश्चली स्तनयित्नुर् मागधो विज्ञानं वासो ऽहर् उष्णीषं रात्री
केशा हरितौ प्रवर्तौ कल्मलिर् मणिः ।
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं
मातरिश्वा च पवमानश् च विपथवाहौ
वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसराव्
ऐनं कीर्तिर् गच्छत्य् ऐनं यशो गच्छति य (एवं वेद) ॥